संस्कृत-शब्दकोशः

योग्या योजन

योग्यानुपलब्धि

वाचस्पत्यम्

योग्यानुपलब्धि ||‍ स्त्री योग्यस्य प्रत्यक्षादिना उपलब्धुमर्हस्या- नुपलब्धिरज्ञानम् । न्यायाद्युक्ते अभावग्राहके साधन- भेदे । तथाहि घटादिसत्त्वे तत्र घटाभावो नानुप- लभ्यते तस्य प्रतियोगिनो घटादेः सत्त्वेन तत्प्रत्यक्ष- कारणसामग्र्यसत्त्वेन तत्प्रत्यक्षस्याभावात् किन्तु घटा- स्याभावो गृह्यते पिशाचाद्यभावस्य तु न प्रत्यक्षता तत्- प्रतियोगिपिशाचादेर्दर्शनायोग्यत्वात् । वेदान्तिमते इयं प्रमाणान्तरम् वेदान्तप० ६ प० ।



Correction: