संस्कृत-शब्दकोशः

योग्यानुपलब्धि योजनगन्ध

योजन

वाचस्पत्यम्

योजन ||‍ न० युज—भावादौ ल्युट् । १ संयोगे णिच्—ल्युट् । २ संयोगकरणे । ३ चतुर्षु क्रोशेषु । “स्याद् योजनं क्रोश- चतुष्टयेन” “प्रथममगमदह्ना योजने योजनेशः” इति च लीला० । ४ परमात्मनि च मेदि० । ५ अङ्गुलौ निघ० । युज—णिच्—युच् । यस्यार्थस्य यत्रान्वयः तद्वाचक- शब्दस्य तद्वाचकशब्देन ६ आसत्तिसम्पादने स्त्री ।


शब्दकल्पद्रुमः

योजनं || क्ली (युज्यते मनो यस्मिन्निति । युज् + ल्युट् ।)
परमात्मा । चतुःक्रोशी । योगः । इति मेदिनी । ने, ११३ ॥ * ॥
(यथा, हरि- वंशे । १४६ । १३ । “गान्धारकन्या वहने नृपाणां रथे तथा योजनमूर्ज्जितानाम् ॥”)
चतुःक्रोश्यर्थे यथा, —
“द्वादशाङ्गुलिकः शङ्कुस्तद्द्बयन्तु शयः स्मृतः । तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रिकः ॥ तच्चतुष्कं योजनं स्यादित्यादि मानशास्त्रम् ॥ एतन्मते षोडशसहस्रहस्तैर्य्योजनं भवति । द्बात्रिंशत्सहस्रहस्तैरपि योजनम् । यथा, — यवोदरैरङ्गुलमष्टसंख्यै- र्हस्तोऽङ्गुलैः षड्गुणितैश्चतुर्भिः । हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशः सहस्रद्वितयेन तेषाम् । स्याद्योजनं क्रोशचतुष्टयेन तथा कराणां दशकेन वंशः ॥” इति लीलावती ॥



Correction: