वाचस्पत्यम्
योनल || पु० यवस्य नल इव काण्डोऽस्य पृषो० उत्त्वम् । (देधान) शस्यभेदे हेमच० ।
शब्दकल्पद्रुमः
योनलः || पुं, (यवस्य नल इव नलः काण्डोऽस्य । पृषोदरादिः ।)
शस्यविशेषः । तत्पर्य्यायः । यवनालः २ जूर्णाह्वयः ३ देवधान्यम् ४ जोन्ताला ५ बीजपुष्पिका ६ । इति हेमचन्द्रः । ४ । २४४ ॥