वाचस्पत्यम्
योनि || पुंस्त्री० यु—नि । १ मण्यादीनामुत्पत्तिस्थाने आकरे मेदि० । २ कारणे ३ जले हेम० । ४ स्त्रीणामसाधारणचिह्ने अमरः । ५ तद्देवताके पूर्वफल्गुनीनक्षत्रे ज्यो० । स्त्रीत्वे वा ङीप् । ६ उत्पत्तिस्थानमात्रे त्रिका० ।
शब्दकल्पद्रुमः
योनिः || पुं, स्त्री, (यौति संयोजयतीति । यु + “वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ।” उणा० ४ । ५१ । इति निः ।)
आकरः । इति मेदिनी । ने, १६ ॥ कारणम् । (यथा, उत्तरराम- चरिते । ६ । “ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः । सा योनिः सर्व्ववैराणां सा हि लोकस्य निरृतिः ॥”)
जलम् । इति हेमचन्द्रः । ३ । २४९ ॥ (कुश- द्बीपस्थनदीविशेषः । यथा, मार्कण्डेये । १२१ । ७१ । “धूतपापा नदी नाम योनिश्चैव पुनः स्मृता । सीता द्वितीया विज्ञेया सा चैव हि निशा- स्मृता ॥” तन्त्रशास्त्रविशेषः । यथा, महासिद्धिसारस्वते । “सनत्कुमारकं तन्त्रं योनितन्त्रं प्रकीर्त्तितम् । तन्त्रान्तरञ्च देवेशि ! नवरत्नेश्वरं तथा ॥”)
प्राणिनामुत्पत्तिस्थानम् । इति त्रिकाण्डशेषः ॥ तत्तु चतुरशीतिलक्षप्रकारम् । यथा, —
“चतुरशीतिलक्षाणि चतुर्भेदाश्च जन्तवः । अण्डजाः स्वेदजाश्चैव उद्भिज्जाश्च जरायुजाः ॥ एकविंशतिलक्षाणि ह्यण्डजाः परिकीर्त्तिताः । स्वेदजाश्च तथैवोक्ता उद्भिज्जास्तत्प्रमाणतः ॥ जरायुजाश्च तावन्तो मनुष्याद्याश्च जन्तवः । सर्व्वेषामेव जन्तूनां मानुषत्वं सुदुर्लभम् ॥” इति श्रीगरुडपुराणे प्रेतकल्पे धर्म्मप्रकटनो नाम २ अध्यायः ॥ * ॥
अन्यच्च । “जलजा नव लक्षाणि स्थावरा लक्षविंशतिः । कृमयो रुद्रसङ्ख्याकाः पक्षिणां दशलक्षकम् ॥ त्रिंशल्लक्षाणि पशवश्चतुर्लक्षाणि मानुषाः । सर्व्वयोनिं परित्यज्य ब्रह्मयोनिं ततोऽभ्यगात् ॥” इति बृहद्विष्णुपुराणम् ॥ * ॥
अपि च । “स्थावरास्त्रिंशल्लक्षश्च जलजो नवलक्षकः । कृमिजा दशलक्षश्च रुद्रलक्षश्च पक्षिणः ॥ पशवो विंशलक्षश्च चतुर्लक्षश्च मानवाः । एतेषु भ्रमणं कृत्वा द्बिजत्वमुपजायते ॥” इति कर्म्मविपाकः ॥ (“भूतानाञ्चतुर्व्विधा योनिर्भवति जराय्वण्ड- स्वेदोद्भिदः । तासां खलु चतसृणामपि योनीना- मेकैका योनिरपरिसङ्ख्येयभेदा भवति भूता- नामाकृतिविशेषापरिसङ्ख्येयत्वात् । तत्र जरा- युजानामण्डजानां प्राणिनामेते गर्भकरा भावा यां यां योनिमापद्यन्ते तस्यां तस्यां योनौ तथा तथा रूपा भवन्ति । तद्यथा कनकरजतताम्र- त्रपुसीसा आसिच्यमानास्तेषु तेषु “मधूच्छिष्ट- विम्वेषु । ते यदा मनुष्यविम्बमापद्यन्ते तदा मनुष्यविग्रहेण जायन्ते । तस्मात् समुदाया- त्मकः सन् गर्भो मनुष्यविग्रहेण जायते मनुष्यो मनुष्यप्रभव इत्युच्यते तद्योनित्वात् ।” इति चरके शारीरस्थाने तृतीयेऽध्याये ॥ * ॥
)
भगम् । इत्यमरः । २ । ६ । ७६ ॥ तत्पर्य्यायः । वरा- ङ्गम् २ उपस्थः ३ स्मरमन्दिरम् ४ । इति राज- निर्घण्टः ॥ रतिगृहम् ५ जन्मवर्त्म ६ अधरम् ७ अवाच्यदेशः ८ प्रकृतिः ९ अपथम् १० स्मर- कूपकः ११ अप्रदेशः १२ प्रकूतिः १३ पुष्पी १४ संसारमार्गकः १५ संसारमार्गः १६ गुह्यम् १७ स्मरागारम् १८ स्मरध्वजम् १९ रत्यङ्गम् २० रतिकुहरम् २१ कलत्रम् २२ अघः २३ । इति शब्दरत्नावली ॥ रतिमन्दिरम् २४ स्मर- गृहम् २५ कन्दर्पकूपः २६ कन्दर्पसम्बाधः २७ कन्दर्पसन्धिः २८ स्त्रीचिह्नम् २९ । इति जटा- धरः ॥ स तु गर्भस्थायाः सप्तभिर्मासैर्भवति । इति सुखबोधः ॥ * ॥
तस्य लक्षणं यथा, —
“शुभः क्रमठपृष्ठाभो गजस्कन्धोपमो भगः । वामोन्नतश्चेत् कन्याजः पुत्त्रजो दक्षिणोन्नतः ॥ आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः । तुङ्गः कमलवर्णाभः शुभोऽश्वत्थदलाकृतिः ॥ कुरङ्गखुररूपो यश्चुल्लिकोदरसन्निभः । रोमशो विवृतास्यश्च दृश्यनासोऽतिदुर्भगः ॥ शङ्खावर्त्तो भगो यस्याः सा गर्भमिह नेच्छति । चिपिटः कर्पराकारः किङ्करीपददो भगः ॥ वंशवेतसपत्राभो गजरोमोच्चनासिकः । विकटः कुटिलाकारो लम्बगल्लस्तथाशुभः ॥” इति काशीखण्डे ३७ अध्यायः ॥ * ॥
अपि च । “शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्त्ता सा च कीर्त्तिता । तस्यास्तृतीये त्वावर्त्ते गर्भशय्या प्रतिष्ठिता ॥” * ॥
अथ योनिरोगाधिकारः । “तत्र योनिरोगाणां निदानान्याह । ‘मिथ्याहारविहाराभ्यां दृष्टैर्दोषैः प्रदूषितात् । आर्त्तवाद्वीर्य्यतश्चापि दैवाद्वा स्युर्भगे गदाः ॥’ रोगिणीनां योनीनां नामान्याह । ‘उदावर्त्ता तथा बन्ध्या विप्लुता च परिप्लुता । वातला योनयो रुग्ना वातदोषेण पञ्चधा ॥ पञ्चधा पित्तदोषेण तत्रादौ लोहितक्षरा । प्रस्रंसिनी वामिनी च पुत्त्रघ्नी पित्तला तथा ॥ अत्यानन्दा कर्णिनी च चरणानन्दपूर्व्विका । अतिपूर्व्वापि सा ज्ञेया श्लेष्मला च कफादिमाः ॥ खण्ड्यण्डिनी च महती सूचीवक्त्रा त्रिदोषिणी । पञ्चैता योनयः प्रोक्ताः सर्व्वदोषप्रकोपतः ॥’ अथ तासां लक्षणान्याह । ‘सा फेणिलमुदावर्त्ता रजःकृच्छ्रेण मुञ्चति । बन्ध्या नष्टार्त्तवा ज्ञेया विप्लुता नित्यवेदना ॥ परिप्लुता या भवति ग्राम्यधर्म्मे रुजा भृशम् । वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता ॥ चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ॥’ अनिलवेदनास्तोदादयः ॥ वातलायां त्वति- शयिता वातवेदना बोद्धव्या । वातला इत्य- न्वयात् ॥ * ॥
‘सदाहं क्षरते रक्तं यस्याः साः लोहितक्षरा । प्रस्रंसिनी स्रंसते च क्षोभिता दुःप्रजायिनी ॥’ क्षोभिता विमर्द्दिता स्रंसते स्वस्थानात् च्यवते दुःप्रजायिनी दुष्टप्रजननशीला । ‘सवातमुद्गिरेद्बीर्य्यं वामिनी रजसा युतम् । स्थितं स्थितं हन्ति गर्भं पुत्त्रघ्नी रक्तसंस्रवात् ॥’ पुत्त्रशब्दोऽत्रापत्योपलक्षकः । ‘अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता । चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् ॥’ अत्यानन्दानसन्तोषं ग्राम्यधर्म्मेण विन्दति । कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते ॥’ कर्णिका मांसस्थ कर्णिकारो ग्रन्थिः ॥ ‘मैथुने चरणापूर्ब्बं पुरुषादतिरिच्यते ।’ अतिरिच्यते रजो मुञ्चति इत्यर्थः । ‘बहुशश्चातिचरणा तयोर्व्वीजं न तिष्ठति ॥’ बहुशः वारं वारं अतिरिच्यते तयोः चर- णातिचरणयोः । ‘श्लेष्मला पिच्छिला योनिः कण्डयुक्तातिशीतला । चतसृष्वपि चाद्यासु श्लेष्मलिङ्गाच्छ्रयो भवेत् ॥ अनार्त्तवास्तनी खण्डी खरस्पर्शा च मैथुने ॥’ अस्तनी ईषत् स्तनौ यस्यां सा अत्र लक्ष्या खण्डी । अण्डिनीमाह । ‘महामेढ्रग्रहीताया वालाया अण्डिनी भवेत् ॥’ महामेढ्रः पुरुषः तेन ग्रहीताया बालायाः सूक्ष्मयोनिच्छिद्राया अण्डिनी अण्डवल्लम्बमाना योनिर्भवति । ‘विवृतातिमहायोनिः सूचीवक्त्रातिसंवृता । सर्व्वलिङ्गसमुत्थानात् सर्व्वदोषप्रकोपजा । चतसृष्वपि चाद्यासु सर्व्वलिङ्गनिदर्शनम् ॥’ असाध्या योनीराह । ‘पञ्चासाध्या भवन्तीह योनयः सर्व्वदोषजाः ॥’ पञ्च खण्डीप्रभृतयः ॥ * ॥
अथ योनिकन्दस्य निदानमाह । ‘दिवास्वप्नादतिक्रोधाद्ब्यायामादतिमैथुनात् । क्षताच्च नखदन्ताद्यैर्व्वाताद्याः कुपिता यथा ॥’ वाताद्याः कुपिता यथा यथा निदानकुपिता वाताद्याः ॥ * ॥
रूपमाह । “पूयशोणितसङ्काशं लकुचाकृतिसन्निभम् । जनयन्ति यदा योनौ नाम्ना कब्दः स योनिजः ॥” लकुचाकृतिसन्निभं लकुचाकाराकारम् । गुड- कमत्र विशेष्यं बोद्धव्यम् ॥ * ॥
वातजादिभेदेन रूपभेदमाह । “रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्दिशेत् । दाहरागज्वरयुतं विद्यात् पित्तात्मकं तु तम् ॥ तिलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम् । सर्व्वलिङ्गसमायुक्तं सन्निपातात्मकं भवेत् ॥” * ॥
अथ योनिरोगाणां चिकित्सा । तत्र बन्ध्या- चिकित्सा । तस्या लक्षणमाह । बन्ध्या नष्टार्त्तवा ज्ञेयेति । ततः प्रथमतो नष्टार्त्तवाचिकित्सा । ‘आर्त्तवादर्शने नारी मत्स्यान् सेवेत नित्यशः । काञ्जिकञ्च तिलान् माषानुदश्विच्च तथा दधि ॥ इक्ष्वाकुवीजदन्तीचपलागुडदमनकिण्वयवशूकैः । सस्नुक्क्षीरैर्व्वर्त्तिर्योनिगता कुसुमसञ्जननी ॥’ इक्ष्वाकुः कटुतुम्बी । चपला पिप्पली । दमनो मदनफलम् । किण्वं सुराबीजम् । ‘पीतं ज्योतिष्मतीपत्रं राजिकोग्रासनं त्र्यहम् । शीतेन पयसा पिष्टं कुसुमं जनयेद्ध्रुवम् ॥’ ज्योतिष्मती कटभीवृक्षविशेषः करही इति लोके । पयसा दुग्धेन ॥ * ॥
अथ बन्ध्या- चिकित्सा । ‘वला सिता सातिबला मधूकं वटस्य शुङ्गं गजकेशरञ्च । एतन्मधुक्षीरघृतैर्निपीय बन्ध्या सुपुत्त्रं नियतं प्रसूते ॥ अश्वगन्धाकषायेण सिद्धं दुग्धं घृतान्वितम् । ऋतुस्नाताङ्गना प्रातः पीत्वा गर्भं दधाति हि ॥ पुष्योद्धृतं लक्ष्मणाया मूलं दुग्धेन कन्यया । पिष्ट्वा पीत्वा ऋतुस्नाता गर्भं धत्ते न संशयः ॥ कुरण्टमूलं धातक्या कुसुमानि वटाङ्कुराः । नालोत्पलं पयोयुक्तमेतद्गर्भप्रदं ध्रुवम् ॥ यावला पिबति पाश्वपिप्पलं जीरकेण सहितं हिताशना । श्वेतया विशिखपुङ्खया युतं सा सुतं जनयतीह नान्यथा ॥” श्वेतकुसुभया शरपुंखया सह । “पत्रमेकं पलाशस्य पिष्ट्वा दुग्धेन गर्भिणी । पीत्वा पुत्त्रमवाप्नोति वीर्य्यवन्तं न संशयः ॥ शूकरशिम्बीमूलं मध्यं वा दधि फलस्य सपयस्कम् पीत्वाथोभयलिङ्गीवीजं कन्यां न सूते स्त्री ॥ पुत्त्रमजारीमूलं विष्णुक्रान्तेशालिङ्गिनीसहिता । एतत् गर्भेऽष्टदिनं पीत्वा कन्यां न सर्व्वथा सूते ॥ पुत्त्रमजारी पतजिया तस्या मूलम् । इशालि- ङ्गिनी पचगुरिया ॥ * ॥
गर्भप्रदरभेषजकथना- वसरे गर्भाजनकमपि भेषजमाह । ‘पिप्यलीविडङ्गटङ्कणसमचूर्णं या पिबेत् पयसा । ऋतुसमये नहि तस्या गर्भः संजायते क्वापि ॥ आरनालपरिपेषितं त्र्यहं या जयाकुसुममत्ति पुष्पिणी । सत्पुराणगुडमुष्टिसेविनी सा दधाति नहि गर्भमङ्गना ॥ * ॥
तासु योनिषु चाद्यासु स्नेहादिक्रम इष्यते । वस्त्यभ्यङ्गपरीषेकप्रलेपपिचुधारणम् ॥’ वस्तिरत्रोत्तरवस्तिः । क्रमश्चिकित्सा । ‘नतवार्त्ताकिनीकुष्ठसैन्धवामरदारुभिः । तिलतैलं पचेन्नारी पिचुं तस्य विधारयेत् ॥ विप्लुतायां सदा योनौ व्यथा तेन प्रशाम्यति ॥’ नतं तगरम् । ‘वातलां कर्कशां स्तब्धामल्पस्पर्शां तथैव च । कुम्भीस्वेदैरुपचरेदन्तर्व्वेश्मनि संवृते ॥ धारयेद्बा पिचुं योनौ तिलतैलस्य सा सदा । पित्तलानाञ्च योनीनां सेकाभ्यङ्गपिचुक्रियाः ॥ शीताः पित्तहराः कार्य्याः स्नेहनार्थं घृतानि च । प्रस्रंसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत् ॥ पिधाय वेशवारेण ततो बन्धं समाचरेत् । शुण्ठीमरिचकृष्णाभिर्धान्यकाजाजिदाडिमैः ॥ पिप्पलीमूलसंयुक्तैर्व्वेशवारः स्मृतो बुधैः ॥ धात्रीरसं सितायुक्तं योनिदाहे पिबेत् सदा । सूर्य्यक्रान्ताभवं मूलं पिबेद्वा तण्डुलाम्बुना ॥ योन्यान्तु पूयस्राविण्यां शोधनद्रव्यनिर्म्मितैः । सगोमूत्रैः सलवणैः पिण्डैः संपूरणं हितम् ॥’ शोधनद्रव्याणि निम्बपत्रादीनि । ‘दुर्गन्धां पिच्छिलां वापि चूर्णैः पञ्चकषायजैः । पूरयेद्धारयेद्राजवृक्षादिक्वथिताम्बुना ॥” पञ्च कषायाः । वचावासापटोलप्रियङ्गुनिम्बाः । राजवृक्षादि धनवहेरा । “पिप्पल्यामरिचैर्माषैः शताह्वाकुष्ठसैन्धवैः । वर्त्तिस्तुल्या प्रदेशिन्या योनौ श्लेष्मविशोधिनी ॥ तुल्या प्रदेशिन्या दैर्घ्येण परिणाहेन च । कर्णिन्यां वर्त्तयो देयाः शोधनद्रव्यनिर्म्मिताः ॥ गुडूचीत्रिफलादन्तीक्वथितोदकधारया । योनिं प्रक्षालयेत्तेन तत्र कण्डूः प्रशाम्यति ॥ मुद्गपुष्पं सखदिरं पथ्यां जातीफलं तथा । विम्बीं पूगञ्च संचूर्ण्य वस्त्रपूतं क्षिपेद्भगे । योनिर्भवति संकीर्णा न स्रवेच्च जलं ततः ॥ कपिकच्छुभवं मूलं क्वाथयेद्बिधिना भिषक् । योनिः सङ्कीर्णतां याति क्वाथेनानेन धावनात् ॥ जीरकद्वितयं कृष्णा सुषुवी सुरभिर्व्वचा । वासकः सैन्धवश्चापि यवक्षारो यवानिका ॥ एषां चूर्णं घृते किश्चित् भृष्ट्वा खण्डेन मोदकम् । कृत्वा खादेद्यथावह्नि योनिरोगाद्बिमुच्यते ॥ मञ्जिष्ठा मधुकं कुष्ठं त्रिफला शर्करा बला । मेदे पयस्या काकोली मूलञ्चैवाश्वगन्धजम् ॥ अजमोदा हरिद्रे द्वे प्रियङ्गुकटुरोहिणी । उत्पलं कुमुदं द्राक्षा काकोल्यौ चन्दनद्वयम् एतेषां कार्षिकैर्भार्गैर्घृतप्रस्थं विपाचयेत् ॥ शतावरीरसं क्षीरं घृताज्ज्ञेयं चतुर्गुणम् । सर्पिरेतन्नरः पीत्वा स्त्रीषु नित्यं वृषायते । पुत्त्रान् जनयते वीरान् मेधाढ्यान् प्रियदर्श- नान् ॥ या चैवास्थिरगर्भा स्यात् पुत्त्रं वा जनयेन्मृतम् । अल्पायुषं वा जनयेत् या च कन्यां प्रसूयते ॥ योनिरोगे रजोदोषे परिस्रावे च शस्यते । प्रजावर्द्धनमायुष्यं सर्व्वग्रहनिवारणम् । नाम्ना फलघृतं ह्येतदश्विभ्यां परिवर्त्तितम् ॥ अनुक्तं लक्ष्मणामूलं क्षिपन्त्यत्र चिकित्सकाः । जीवद्वत्सैकवर्णाया घृतञ्चात्र प्रयुज्यते । अरण्यगोमयेनेह वह्निज्वाला च दीयते ॥’ मेदे मेदा महामेदा तयोरभावे शतावरी द्बिगुणा देया । पयस्यात्र क्षीरकाकोली काकोलीयुगलाभावे अश्वगन्धा द्विगुणा देया । प्रियङ्गुस्थाने केचिद्धिङ्गु पठन्ति । पयस्या काकोलीत्युक्त्वा पुनः काकोल्याविति काकोली- क्षीरकाकोल्यौ द्वैगुण्यार्थं एतस्य फलघृतस्य पाठो नानातन्त्रेषु नानाविधः । तत्र हिङ्गुवचा- तगरजीवकर्षभका एवाधिकाः । तत्र जीवकर्ष- भयोरभावे विदारीकन्दो द्विगुणो देयः । फल- घृतं सकलयोनिरोगेषु ॥ * ॥
अथ योनिकन्दस्य चिकित्सा । ‘गैरिकाम्रास्थिजन्तुघ्नरजन्यञ्जनकट्फलम् । पूरयेद्योनिमेतेषां चूर्णैः क्षौद्रसमन्वितैः ॥ त्रिफलायाः कषायेण सक्षौद्रेण च सेचयेत् । प्रमदा योनिकन्देन व्याधिना परिमुच्यते ॥’ अथ प्रसङ्गात् गुर्व्विण्या रोगाणां चिकित्सा । ‘ह्नीवेरातिविषामुस्तमोचशक्रैः शृतं जलम् । दद्याद्गर्भे प्रचलिते प्रदरे कुक्षिरुज्यपि ॥’ कुक्षिरुक् उदरव्यथा । चलितगर्भस्थापने ह्नीवे- रादिक्वाथः ॥ * ॥
अथ गर्भस्रावपातयोर्निदानम् । ‘ग्राम्यधर्म्माध्वगमनयानासनप्रपीडनैः । ज्वरोपवासोत्पतनप्रहाराजीर्णधावनैः ॥ वमनाच्च विरेकाच्च कुन्थनाद्गर्धपातनात् । तीक्ष्णधारोष्णकटुकतिक्तरूक्षनिषेवणात् ॥ वेगाभिघाताद्विषमादासनाच्छयनाद्भयात् । गर्भे पतति रक्तस्य सशूलं दर्शनं भवेत् ॥’ गर्भपातनात् नियमे गर्भे पातनशीलं द्रव्यं तस्मात् । गर्भस्य स्रावपातयोः पूर्ब्बरूपमाह । गर्भे पत- तीत्यादि । पतति स्रावेण पातेन वा पतिष्यति स्रावपातयोरवधिमाह । ‘आचतुर्थात्ततो मासात् प्रस्रवेद्गभविद्रवः । ततः स्थिरशरीरस्य पातः पञ्चमषष्ठयोः ॥’ आचतुर्थात् मासात् चतुर्थमासपर्य्यन्तम् । गर्भस्य विद्रवः । शोणितरूपगर्भः । स्रवति शोणितमिति भोजवचनात् । स्थिरशरीरस्य कटिनशरीरस्य गर्भस्य । गर्भपातस्य दृष्टान्तं दर्शयति । ‘गर्भोऽभिघातविषमासनपीडनाद्यैः पक्वं द्रुमादिव फलं पतति क्षणेन ॥’ यथा वृन्तलग्नं पक्वं फलमभिघातेनाकाल एव पतति तथा गर्भोऽप्यभिघातादिना अकालेऽपि पतति ॥ * ॥
अथ गर्भस्रावस्य चिकित्सा । ‘गुर्व्विण्या गर्भतो रक्तं स्रवेद्यदि मुहुर्मुहुः । तन्निरोधाय सुस्निग्धमुत्पलादिशृतं पिबेत् ॥’ उत्पलादिगणमाह । ‘उत्पलं नीलमारक्तं कह्लारं कुमुदं तथा । श्वेताम्भोजञ्च मधुकमुत्पलादिरयं गणः ॥ संशीलितो हरत्येव दाहं तृष्णां हृदामयम् । रक्तपित्तञ्च मूर्च्छाञ्च तथा छर्द्दिमरोचकम् ॥’ अथ गर्भपातस्य उपद्रवानाह । ‘प्रस्रंशमाने गर्भे स्याद्दाहः शूलञ्च पार्श्वयोः । पृष्ठरुक् प्रदरानाहौ मूत्रसङ्गश्च जायते ॥’ प्रस्रंशमाने पतति ॥ * ॥
अथ गर्भस्य स्थाना- न्तरगमने चोपद्रवानाह । ‘स्थानात् स्थानान्तरं तस्मिन् प्रयात्यपि च जायते । आमपक्वाशयादौ तु क्षोभः पूर्ब्बेऽप्युपद्रवाः ॥’ पूर्ब्बेऽप्युपद्रवाः पार्श्वशूलादयः ॥ * ॥
तञ्चिकित्सामाह । ‘स्निग्धशीताः क्रियास्तेषु दाहादिषु समाचरेत् । कुशकाशोरुवूकाणां मूलैर्गोक्षुरकस्य च ॥ शृतं दुग्धं सितायुक्तं गर्भिण्याः शूलहृत् परम् । श्वदंष्ट्रामधुकक्षुद्राम्लानैः सिद्धं पयः पिबेत् । शर्करामधुसंयुक्तं गुर्व्विणीवेदनापहम् ॥’ अम्लानः पुष्पजातिः । अयं बाणपुष्प इति गौडादौ प्रसिद्धः । ‘मृत्कोष्ठागारिका गेहसम्भवात्र च मृत्तिका । समङ्गा धातकीपुष्पं गैरिकञ्च रसाञ्जनम् ॥ तथा सर्ज्जरसश्चैतान् यथालाभं विचूर्णयेत् । तच्चूर्णं मधुना लिह्यान्नारी प्रदरशान्तये ॥’ मृत्कोष्ठागारिकासम्भवा मृत्कोष्ठागारिका वरटी तन्निर्म्मितगृहभवा मृत्तिका । समङ्गा लज्जालुः । ‘कसेरूत्पलशृङ्गाटकल्कं वा पयसा पिबेत् । पक्वं वचारसोनाभ्यां हिङ्गुसौवर्च्चलान्वितम् । आनाहे तु पिवेत् दुग्धं गुर्व्विणी सुखिनी भवेत् ॥ सौवर्च्चलं चौहार इति लोके । ‘तृणपञ्चकमूलानां कल्केन विपचेत् पयः । तत् पयो गुर्व्विणी पीत्वा मूत्रसङ्गाद्बिमुच्यते ॥ शालीक्षुकुशकाशैः स्यात् शरेण तृणपञ्चकम् । एषां मूलं तृषादाहपित्ताशृङ्मूत्रसङ्गहृत् ॥’ * ॥
अथ प्रसूताया योनेः क्षतादेश्चिकित्सा । ‘तुम्बीपत्रं तथा लोध्रं समभागं सुपेषयेत् । तेन लेपो भगे कार्य्यः शीघ्रं स्याद्योनिरक्षता ॥ पलाशोडुम्बरफलं तिलतैलसमन्वितम् । योनौ विलिप्तं विधिना गाढीकरणमुत्तमम् ॥” इति भावप्रकाशः ॥ * ॥
अथ कुयोनिप्राप्तिकारणानि । “हविर्ज्जुह्वति नाग्नौ ये गोविन्दं नार्च्चयन्ति ये । लभन्ते नात्मविद्याञ्च सुतीर्थविमुखाश्च ये ॥ सुवर्णं वस्त्रताम्बूलं रत्नमन्नं फलं जलम् । आर्त्तेभ्यो न प्रयच्छन्ति सर्व्वे सुकृतदारकाः ॥ ब्रह्मस्वञ्च स्त्रीधनानि लोभादेव हरन्ति ये । बलेन छद्मना वापि धूर्त्ताश्च परवञ्चकाः ॥ नास्तिकाः कुहकाश्चौरा ये चान्ये वकवृत्तयः । बालवृद्धातुरस्त्रीषु निर्द्दयाः सत्यवर्ज्जिताः ॥ अग्निदा गरदा ये च ये चान्ये कूटसाक्षिणः । अगम्यागामिनः सर्व्वे ये चान्ये ग्रामयाजिनः ॥ व्याधाचरणसम्पन्ना वर्णादिधर्म्मवर्जिताः । देवोपदेवदनुजरक्षोयक्षादिसेविनः ॥ सर्व्वदा मादकद्रव्यपानमत्ता हरिद्विषः । देवतोच्छिष्टपतितनृपश्राद्धान्नभोजिनः ॥ असत्कर्म्मरता नित्यं सर्व्वपातकपापिनः । पाषण्डधर्म्माचरणाः पुरोधोवृत्तिजीविनः ॥ पितृमातृस्वसापत्यस्वदारत्यागिनश्च ये । ये कदर्य्याश्च लुब्धाश्च नास्तिका धर्म्मदूषकाः ॥ त्यजन्ति स्वामिनं युद्धे त्यजन्ति शरणागतम् । गवां भूमेश्च हर्त्तारो ये चान्ये रत्नदूषकाः ॥ महाक्षेत्रेषु सर्व्वेषु प्रतिग्रहरताश्च ये । परद्रोहरता ये च तथा ये प्राणिहिंसकाः ॥ परापवादिनः पापा देवतागुरुनिन्दकाः ॥ कुप्रतिग्राहिणः सर्व्वे सम्भवन्ति पुनः पुनः ॥ प्रेतराक्षसपैशाच्यतिर्य्यग्वृक्षकुयोनिषु । न तेषां सुखलेशोऽस्ति इह लोके परत्र च ॥ तस्मात् त्यक्ता निषिद्धार्थं विहितं कर्म्म कारयेत् । यज्ञं दानं तपस्तीर्थं मन्त्रं देवं गुरुं भरेत् ॥ नाचरेत् कुत्सितं कर्म्म मनसा च कदाचन । विपाकं कर्म्मणां दृष्ट्वा योनिकोटिषु दुःसहम् ॥ चतुर्भिरपि वर्णैस्तु सेव्यो धर्म्मो निरन्तरम् ॥” इति पाद्मोत्तरखण्डे १८ अध्यायः ॥ * ॥
योनिदुष्टाया असाध्वीत्वं यथा, —
“साध्वी स्त्री मातृतुल्या च सर्व्वथा हितकारिणी । असाध्वी वैरतुल्या च शश्वत्सन्तापदायिका । मुखदुष्टा योनिदुष्टा चैवासाध्वीति विश्रुता ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे २ अध्यायः ॥ * ॥
पापपुण्यफलं अधमोत्तमयोनिप्राप्तिर्यथा, —
“पापपुण्यफलं लोके प्रत्यक्षं खलु दृश्यते । देवदानवमानुष्यतिर्य्यक्त्वं कृमियोनिता ॥ नानायोनिषु जन्मानि नानाव्याधिप्रपीडिताः । मरणं बालवृद्धानामन्धत्वं कुब्जता तथा ॥ ऐश्वर्य्यं सुदरिद्रत्वं पाण्डित्यं मूर्खता तथा । एताश्चराचरे लोके भवन्ति कथमन्यथा ॥” इति पाद्मोत्तरखण्डे २१ अध्यायः ॥ * ॥
पक्षियोनिप्राप्तिकारणं यथा, —
“इति श्रुतकथो विप्र ! सारसं प्राह वानरः । सम्यग्वेत्ति भवान् नूनं त्वं कथं पक्षितां गतः । वृत्तान्तमेतं कथय श्रोतुमिच्छामि सारस ! ॥ सारस उवाच । कथयिष्यामि तत् कर्म्म येनाहं दुर्गतिं गतः । पक्षियोनिं गतो येन तत् सर्व्वं श्रोतुमर्हसि ॥ धान्यखारीशतं साग्रमुत्सृष्टं हि त्वया पुरा । बहुभ्यो ब्राह्मणेभ्यश्च नर्म्मदायाः परिग्रहे ॥ पौरोहित्यमदाल्लोभाद्बञ्चयित्वा द्विजांस्तथा । किश्चिद्दत्त्वां तु तेभ्यश्च गृहीतमखिलं मया ॥ विप्रसाधारणद्रव्यग्रहणोत्पन्नपातकात् । पतितः कालसूत्रेऽहं नरके रक्तकर्द्दमे ॥ वक्तुमत्र न शक्नोमि दुःखं वानर ! नारकम् । दैवात् कथमपि प्राप्त उत्तारो नरकाम्बुधेः ॥ मया यदि तथापीह शकुनत्वमुपस्थितम् । अपहृत्य पुरा कांस्यभाजनं भगिनीगृहात् ॥ द्यूतकर्त्रे मया दत्तं तेन मे सारसी गतिः ॥ इयञ्च ब्राह्मणी पूर्व्वं कांस्यचौरी सुदारुणा । तेनेह सारसी जाता मद्भार्य्या सहधर्म्मिणी ॥” इति तत्रैव १९ । २० अध्यायौ ॥ * ॥
पापिनां नरकभोगानन्तरं स्थावरादियोनिप्राप्ति- र्यथा, —
“स्थावराः कृमयोऽज्ञाश्च पक्षिणः पशवो नराः । धार्म्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ सहस्रभागप्रथमा द्वितीयानुक्रमास्तथा । सर्व्वे ह्येते महाभाग यावन्मुक्तिसमाश्रयाः ॥” इति विष्णुपुराणे २ अंशे ५ अध्यायः ॥ “पापिनां नरकभोगानन्तरं स्थावराद्यासूत्तरो- त्तरमुत्कृष्टासु नवधा भिन्नासु योनिषु जन्मक्रम- माह । स्थावरा इति । अज्ञा मत्स्यादयः । धार्म्मिका नरेष्वेव पुण्यविशेषेण केचिन्मोक्षि- णश्च मुमुक्षवश्च यथाक्रमं भवन्तीति शेषः । तेषाञ्च पूर्ब्बबाहुल्यमुत्तरोत्तराल्पत्वञ्चाह सह- स्रेति । द्बितीयानुक्रमाः द्बितीयोऽनुक्रम उद्देशो येषां द्बितीयस्थानेऽनुक्रान्ता ये क्रमयस्ते सहस्र- भागप्रथमाः सहस्रभागाः सहस्रगुणाः प्रथमाः प्रथमनिर्द्दिष्टाः स्थावरा येषां ते । कृमिभ्यः सहस्रगुणमधिकाः स्थावराः । तत्सहस्रतम- भागाः कृमयः इत्यर्थः । पञ्चम्यन्तपाठेऽपि द्वितीयस्थानेऽनुक्रान्तात् कृमिवर्गात् सहस्रगुणाः स्थावरा इत्येवार्थः । तथा सर्व्वे ह्येत इति । यथा स्थावराः स्थानान्तरनिर्द्दिष्टेभ्यः कृमिभ्यः सहस्रगुणमधिकाः । तथा कृमयः स्थानान्तर- निर्द्दिष्टेभ्योऽज्ञेभ्यः सहस्रगुणमधिकाः । एवं पक्ष्यादिष्वपि द्रष्टव्यम् । मोक्षं सम्यगाश्रयन्ते इति मोक्षसमाश्रया मुमुक्षवो ज्ञाननिष्ठास्तत्- पर्य्यन्तमेवं पूर्ब्बपूर्ब्बादुत्तरोत्तरन्यूनत्वेन जन्म- क्रमः । ततः परं मुक्तिः । एतञ्च संसारिजीव- बाहुल्यकथनं मोक्षस्य दुर्लभतासूचनार्थम् । अयञ्च नवधा निर्द्दिष्टो जन्मक्रमः प्रायिक एव । तदुक्तमादित्यपुराणे । व्युत्क्रमेणापि मानुष्यं प्राप्यन्ते पुण्यगौरवात् । विचित्रा गतयः पुंसां कर्म्मणां गुरुलाघवैः ॥” इति तट्टीका ॥ कुयोनिमोक्षणं यथा, — वाराह उवाच । “येन गर्भं न गच्छेत तन्मे शृणु हि माधवि ! । कथयिष्यामि ते ह्येवं सर्व्वधर्म्मविनिश्चयम् ॥ कृत्वापि विपुलं कर्म्म आत्मानं न प्रशंसति । कुर्व्वते बहुकर्म्माणि शुद्धेनैवान्तरात्मना ॥ कृत्वापि मम कर्म्माणि मत्प्रियाणि वसुन्धरे ! । नैव कुर्व्वन्त्यहङ्कारं क्रोधञ्चैव न गृह्णति ॥ समं पश्यति चित्तेन लाभालाभविवर्जितः । पञ्चानामिन्द्रियाणाञ्च समर्थो निग्रहे रतः ॥ कार्य्याकार्य्ये विजानाति सर्व्वधर्म्मेषु निष्ठितः । शीतोष्णवातवर्षादिक्षुत्पिपासासहश्च यः ॥ यो दरिद्रो निरालस्यः सत्यवागनसूयकः । स्वदारनिरतो नित्यं परदारविवर्जितः ॥ सत्यवादी विशुद्धात्मा नित्यं भागवतप्रियः । संविभागी विशेषज्ञो नित्यं ब्राह्मणवत्सलः ॥ प्रियवादी द्बिजानाञ्च मम कर्म्मपरायणः । कुयोनिन्तु न गच्छेत मम लोकाय गच्छति ॥” वियोनिमोक्षणं यथा, —
“अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ! । यो वियोनिं न गच्छेत मम कर्म्मपरायणः ॥ जीवहिंसानिवृत्तस्तु सर्व्वभूतहितः शुचिः । सर्व्वत्र समतायुक्तः समलोष्टाश्मकाञ्चनः ॥ बाल्ये स्थितोऽपि वयसि क्षान्तो दान्तः शुभे रतः । कृत्यं नैव विजानाति परेणापकृतं क्वचित् ॥ कृत्यञ्च संस्मरेत् ह्येतदसत्यञ्च न जल्पति । व्यलीकेषु निवृत्तो यः पर्य्येति कृतनिश्चयः ॥ नित्यञ्च धृतिमान् किञ्चित् परोक्षेऽपि न च क्षिपेत् । ऋतुकालेऽभिगच्छेत अपत्यार्थं स्वकां स्त्रियम् ॥ डेदृशास्तु नरा भद्रे ! मम कर्म्मपरायणाः । ते वियोनिं न गच्छन्ति मम गच्छन्ति सुन्दरि ॥” तिर्य्यग्योनिमोक्षणं यथा, — वाराह उवाच । “गुह्यानां परमं गुह्यं तच्छृणुष्व वसुन्धरे ! । तिर्य्यग्योनिगताश्चापि यो न गच्छन्ति किल्वि- षम् ॥ अष्टम्याञ्च चतुर्द्दश्यां मैथुनं यो न गच्छति । भुक्त्वा परस्य चान्नानि यश्चैव न विकुत्सति ॥ व्याल्ये वयस्यपि च यो मम नित्यमनुव्रतः । येन केनापि सन्तुष्टः पितृमातृप्रपूजकः ॥ प्राप्तेन जीवति च यः प्रविभागी गुणान्वितः । अलुब्धः सर्व्वकार्य्येषु स्वतन्त्रो नित्यसंयतः ॥ विकर्म्म नाभिकुर्व्वीत कौमारव्रतसंस्थितः । सर्व्वभूतदयायुक्तः सत्त्वेन च समन्वितः ॥ मतिमान्नैव तप्येत परार्थेषु कदाचन । ईदृशीं बुद्धिमास्थाय मम कर्म्माणि कुर्व्वते । तिर्य्यग्योनिं न गच्छेत मम लोकाय गच्छति ॥” इति वराहपुराणे योनिगर्भमोक्षणनामाध्यायः ॥