संस्कृत-शब्दकोशः

यौगक यौजनशतिक

यौगिक

वाचस्पत्यम्

यौगिक ||‍ त्रि० योगात् प्रकृतिप्रत्ययार्थसम्बन्धात् आगतः ठक् । प्रकृतिप्रत्ययलभ्यार्थवाचके शब्दे यथा पाचकादिशब्दः पाककर्तृबाचकः । बोगाय प्रभवति ठक् । २ बोगबोम्ये


शब्दकल्पद्रुमः

यौगिकः || त्रि (योगाय प्रभवतीति । योग + “योगाद्यच्च ।” ५ । १ । १२९ । इति ठञ् ।)
प्रकृतिप्रत्यययोगलभ्यार्थवाचकः । यथा । योगाय प्रभवति । इति योग्यः यौगिकः । इति सिद्धान्त- कौमुदी ॥ “योगरूढाश्च रूढाश्च यौगिका- श्चेति ते त्रिधा । आदितेयादिशब्दा यौगिकाः अदितेरपत्यानीति ढक्प्रत्ययेन केवलं योगार्थ एव ।” इत्यलङ्कारकौस्तुभे २ किरणः ॥ * ॥
(“यौगिकं नाम लक्षयति विभजते च । ‘योगलभ्यार्थमात्रस्य बोधकं नाम यौगिकम् । समासस्तद्धिताक्तञ्च कृदन्तञ्चेति तत्त्रिधा ॥’ यन्नाम स्वान्तर्न्निविष्टशब्दानां योगलभ्यस्यैव यादृशार्थस्यान्वयबोधं प्रतिहेतुस्तन्नाम तादृ- शार्थे यौगिकम् । योगरूढन्तु कृष्णसर्पादिपदं योगेनावच्छिन्नस्य रूढ्यर्थस्य बोधकं न तु तन्मात्रस्य । तच्च यौगिकं त्रिविधं समास- स्तद्धिताक्तं कृदन्तञ्चेति । द्वन्द्बोऽपि समासः स्वघ- टकशब्दानामाकाङ्क्षया लभ्यस्य धवखदिरा- द्यर्थस्यान्वयकोधकतया यौगिक एव । सर्व्वञ्चेदं रूढान्यत्वेन विशेषणीयं नातः कृष्णसर्पादौ वासुदेवादौ पङ्कजादौ च योगरूढेऽतिप्रसङ्गः । ब्राह्मणी श्वश्रूः शूद्रेत्यादौ ङीबादेः स्त्रीत्व- वाचित्वे तादृशं नाम यौगिकमेव अन्यथा तु स्त्रीत्वादिमति तत्तदर्थे रूढमेव नातो विभा- गस्य व्याघातः ॥ यौगिकेषु समासं लक्षयति । ‘यादृशस्य महावाक्यस्यान्तस्त्वादिर्न्निजार्थके । यादृशार्थस्य धीहेतुः स समासस्तदर्थकः ॥’ यादृशमहावाक्योत्तरस्त्वतलादिः स्वार्थस्य यादृ- शार्थावच्छिन्नविषयताशालिबोघे हेतुस्तादृशं तद्वाक्यं तथाविधार्थे समासः । पाचकादिकन्तु पाककर्त्ताद्यर्थकं वाक्यमपि स्वघटकानेकनाम लभ्यतादृशार्थकत्वविरहान्न महावाक्यम् । प्रकृ- त्यर्थमात्रावच्छिन्नप्रत्ययार्थस्यान्वयबोधं प्रत्ययो- ग्यत्वं वा प्रकृते वाक्यस्य महत्त्वं वाच्यम् । तेन उपकुम्भादौ नाव्याप्तिर्न्नवा नीलघटत्वत्वमित्यादौ नीलघटत्वादिभागेऽतिप्रसङ्गः । क्षीरपायीत्यादि- कस्तु प्रकृत्यर्थावच्छिन्नकृदर्थस्यान्वयबोधे समर्थो- ऽपि न प्रकृत्यर्थमात्रावच्छिन्नस्य ततः पान शीलसामान्यस्याप्रत्ययात् । राज्ञः पुरुषत्वमित्या- दितो राजन्येव पुरुषभावः प्रतीयते न तु राज- पुरुषस्य भावः तद्धितानां प्रकृत्यर्थमात्रान्वित स्वार्थबोधकत्वादतो राज्ञः पुरुषेत्यादिभागे न प्रसङ्गः । पायंपायमित्यादिणमन्तभागस्तु स्वार्था- वच्छिन्नस्य धात्वन्तरार्थस्यैवान्वयबोधको न तु त्वादिप्रत्ययार्थस्य प्रस्थायेत्यादौ समासव्यप- देशोल्यवादिशब्दसंस्कारप्रयोजनको गौणः ॥” * * * * * * “यौगिकेषु क्रमप्राप्तं तद्धिताक्तं नाम लक्षयति । ‘यन्नाम तद्धितं यच्च यत्क्रमं सद्यदर्थकम् । यद्द्बयं यम्क्रमं तत्र तद्धिताक्तं निगद्यते ॥’ यद्यपि नामोत्तरतद्धितत्वं तद्धितोत्तरनामत्वं वा प्रत्येकं बहुगुडो द्राक्षेत्यादौ दाक्षिरित्यादौ चाव्यापकमेव तद्धिताक्ते नाम्नि तथापि यादृशं नाम यच्च तद्धितं यादृशानुपूर्ब्यवच्छिन्नं सद्या- दृशार्थस्यान्वयबोधे समर्थं तादृशानुपूर्ब्यवच्छिन्नं तद्द्बयमपि तादृशार्थे तद्धिताक्तं नामेत्यर्थः पचतितरामित्यादिकन्तु नामैव न प्रागेव तु तद्धिताक्तं तस्यापि लक्ष्यत्वे यः शब्दस्तद्धितं यच्चेति पठनीयं टाबादेरपि तद्धितत्वोपगमा- दजाब्राह्मणीत्यादेर्नासंग्रह इति वदन्ति । कृदन्तं नाम लक्षयति । ‘यद्धात्वर्थान्वितस्वार्थधीकृत् कृद्यादृशं भवेत् । तद्धातूत्तरगं तत् कृत् कृदन्तं नाम तादृशम् ॥’ यद्धात्वर्थान्वितस्वार्थान्वयबोधं प्रति यादृशानु- पूर्ब्यवच्छिन्नस्य यत्कृतो निश्चयः कारणं तद्धा- तूत्तरगं तत् कृदेव तादृशानुपूर्ब्यवच्छिन्नं सत् कृदन्तं नाम । यथा पाठकपाठ्यमानादि तद्धि धात्वर्थेनान्वितस्य स्वार्थकर्त्तादेः कर्म्मत्वादा- वन्वयबोधं प्रति द्वितीयाद्यंशे तादृशानुपूर्ब्बि- कत्वेनं निश्चीयमानं हेतुः चैत्रेण ग्रामस्य गन्तव्यमित्यादौ धात्वर्थे स्वार्थमिष्टसाधनत्वादिकं बोधयदपि तव्यादिकं धात्वर्थनिष्ठविषयतानिरू- पितस्वार्थविषयताकबोधजनकत्वेन धात्वर्था- न्वितस्वार्थकमेव भावकृतामपि स्वरूपार्थकत्वं व्युत्पादितमेव ॥” इति शब्दशक्तिप्रकाशिका ॥ अगुरुः । तत्पर्य्यायो यथा, —
“अयोगुरुः समुद्दिष्टो यौगिको लोहनामभिः ॥” इति गारुडे २०५ अध्यायः ॥)



Correction: