वाचस्पत्यम्
रक्तक || पु० रक्तं रुधिरमिव कायति कै—क इवार्थे कन् वा । १ अम्लानवृक्षे २ बन्ध्कवृक्षे मेदि० । ३ रक्तशोभाञ्जने ४ रक्तैरण्डे च राजनि० । ५ रुधिरे ६ रक्तवस्त्रे च न० । ७ अनुरागिणि मेदि० ९ विनोदिनि च त्रि० ।
शब्दकल्पद्रुमः
रक्तकः || पुं, (रक्तं रक्तवर्णं कायति प्राप्नोतीति । कै + कः ।)
अम्लानवृक्षः । बन्धूकवृक्षः । रक्त- वस्त्रम् । अनुरागी । इति मेदिनी । के, १४५ ॥ विनोदी । इति शब्दरत्नावली ॥ रक्तशिग्रुः । रक्तैरण्डः । इति राजनिर्घण्टः ॥ (अश्व- विशेषः । यथा, अश्ववैद्यके । ३ । १०० । “पीतको हरितः प्रोक्तः कषायो रक्तकः स्मृतः । पक्वतालनिभो वाजी कयाहः परिकीर्त्तितः ॥” रक्त एव स्वार्थे कन् । लोहितवर्णे, त्रि । यथा, बृहत्संहितायाम् । ८ । ४६ । “अलसस्तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पबीजनाशः ॥”)