संस्कृत-शब्दकोशः

रक्तकन्दल रक्तकम्बल

रक्तकमल

वाचस्पत्यम्

रक्तकमल ||‍ न० रक्तं कमलमिव । रक्तवर्णोत्पले राजनि० । पृषो० । रक्तकम्बलमप्यत्र न० ।


शब्दकल्पद्रुमः

रक्तकमलं || क्ली (रक्तं रक्तवर्णं कमलम् ।)
रक्त- वर्णोत्पलम् । तत्पर्य्यायः । कोकनदम् २ रक्ताम्भो- जम् ३ अरुणकमलम् ४ शोणपद्मम् ५ रक्तोत्- पलम् ६ अरविन्दम् ७ रविप्रियम् ८ रक्त- वारिजम् ९ । (रक्तकम्बलम् १० । इति पाद्मो त्तरखण्डे १३ अध्यायः ॥)
अस्य गुणाः । कटु- त्वम् । तिक्तत्वम् । मधुरत्वम् । शिशिरत्वम् । रक्तदोषहरत्वम् । पित्तकफवातशमनत्वम् । सन्तर्पणकारणत्वम् । वृष्यत्वञ्च । इति राज- निर्घण्टः ॥ तत्पर्य्यायगुणाः । “विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम् । रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम् ॥ धवलं कमलं शीतं मधुरं कफपित्तजित् । तस्मादल्पगुणं किञ्चिदन्यद्रक्तोत्पलादिकम् ॥” इति भावप्रकाशः ॥



Correction: