संस्कृत-शब्दकोशः

रक्तपिण्डक रक्तपित्तहा

रक्तपित्त

वाचस्पत्यम्

रक्तपित्त ||‍ न० रोगभेदे । तल्लक्षणादिकं भावप्र० उक्तं यथा “घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः । तीक्ष्णोष्ण- क्षारलवणैरम्लैः कदुभिरेव च । पित्तं विदग्धं स्वगुणै- र्विदहत्याशु शोणितम्” । तीक्ष्णं मरिचादि । उष्ण- मग्नितापादि । क्षारोयवक्षारादिः । विदग्धं स्वगुणैः स्वकारणैः गुणैस्तीक्ष्णादिभिः । गुणैरिति बहुत्वेन तीक्ष्ण म्ललवणकटूष्णघर्म्मादयो गृह्यन्ते विदहति दूषयति । अथ रक्तपित्तस्य सामान्यं लक्षणमाह “ततः प्रवर्त्तते रक्तमूर्द्धञ्चाधो द्विधाऽपि वा” । अत्र रक्त- मित्युपलक्षणम् । तेन संसृष्टं पित्तञ्च । अतएव रक्तञ्च पित्तञ्च रक्तपित्तमिति द्वन्द्व इति सुश्रुतः । रक्तञ्च तत् पित्तं चेति रक्तपित्तं रागप्राप्तं पित्तं रक्तमित्युच्यते रक्तं पित्तं कर्मधारयश्च इति चरकः । उभयत्रापि न दोषः कारणत्रयात् । कारणत्रयमाह “संयोगात् दूषणात् तत्तु सामान्यात् गन्धवर्णयोः । रक्तञ्च पित्तमाख्यातं रक्त- पित्तं मणीषिभिः” । मार्गानाह “ऊर्ध्वं नासाक्षिकर्णास्यै- र्मेढ्रयोनिगुदैरधः । कुप्रितं रोमकूपैश्च समस्तैस्तत्- प्रवर्त्तते” । कुपितं पित्तम् । पूर्वरूपमाह “सदनं शीत- कामित्वं कण्ठधूमायनं वमिः । लोहगन्धिश्च निश्वासो भवत्यस्मिन् भविष्यति” । “विशिष्टरूपमाह “सान्द्रं सपाण्डु सस्नेहं पिलिकं च कफान्वितम्” । वातिकमाह “श्या- वारुणं सफेतञ्च तनु रूक्षञ्च वातिकम्” । पैत्तिकमाह “रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम् । मेच- काङ्गारधूमाभमञ्जनाभञ्च पैत्तिकम्” । मेचकम् चिक्वणं कृष्णवर्णम् । अञ्जनं स्रोतोञ्जनं तदाभम् । संसर्गविशेषेण मार्गमेदमाह” “संसृष्टं लिङ्गसंसर्गाद्त्रिलिङ्गं सान्नि- पातिकम् । ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम् । द्विमार्गं कफबाताम्यामुभाभ्यां तत् प्रवर्त्तते” । उपद्रवानाह “दौर्बल्यं श्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्च्छा भुक्ते घोरोविदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा । तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूयनिष्ठी- वनञ्च द्वेषो भक्तेऽविपाको विकृतिरपि भवेद्रक्तपितोप- सर्गाः” । विकृतिः मांसप्रक्षालनाभतादिः । साध्या- दिकमाह “एकदोषानुगं साध्यं द्विदोषात् याप्यमुच्यते । “यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् । ऊर्द्ध्वं साध्यमधो याप्यमसाध्यं युगपद्गतम् । व्याधिभिः क्षीण- देहस्य वृद्धस्याऽनश्रतस्तु यत्” । अथ साध्यमाह “एकमार्गं बलवतो नातिवेगं नवोत्थितम् । रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम्” । सुखे काले हिम- शिशिरयोः । असाध्यमाह” “मांसप्रक्षालनाभं क्कथित- मिव च यत्कर्द्दमाम्भीनिभं वा मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम् । यत् कृष्णं यच्च नीलं भृशमपि कुखपं यत्र चोक्ता विकारास्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति” । उक्ता विकारा दौर्बल्यादयः । सुरपतिधनुषा तुल्यं नानावर्णम् । “येन चोपहतो रक्तं रक्तपित्तेन मानवः । पश्येद्भृशं वियच्चापि तदसाध्यमसंशयम्” । येन रक्तपित्तेनोपहतः मनुष्यः दृश्यं घटप्रटादिकं रक्तं पश्यति स नश्यति वियच्चापि अदृश्यमपीत्यर्थः । अथारिष्टमाह । “लोहितं छर्द्दयेद्यस्तु बहुशो लोहितेक्षणः । लोहितोद्गारदर्शी च म्रियते रक्तपैत्तिकः” । लोहितोद्गारदर्शी व्याधि- महिम्नोद्गारमपि लोहितं पश्यतीत्यर्थः” ।


शब्दकल्पद्रुमः

रक्तपित्तं || क्ली (रक्तदूषकं पित्तमिति । मध्यपदलोपी कर्म्मधारयः । “रक्तञ्च पित्तञ्च रक्तपित्त- मिति द्वन्द्ब इति सुश्रुतः । रक्तञ्च तत् पित्तञ्चेति रक्तपित्तं रागप्राप्तं पित्तमिति कर्म्मधारय इति चरकः ।”)
रोगविशेषः । तस्य निदानं यथा, धन्वन्तरिरुवाच । “अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् । भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः ॥ कोद्रवोद्दालकैश्चान्यैस्तदुक्तैरतिसेवितैः । कुपितं पित्तलैः पित्तं द्रवं रक्तञ्च मूर्च्छयेत् ॥ ते मिथस्तुल्यरूपत्वमागम्य व्याप्नुवंस्तनुम् । पित्तरक्तस्य विकृतेः संसर्गाद्दूषणादपि ॥ गन्धवर्णानुवृत्तेषु रक्ते न व्यपदिश्यते । प्रभवत्यसृजस्तस्मात् प्लीहतो यकृतश्च तत् ॥ शिरोगुरुत्वमरुचिः शीतेच्छा मधुकोत्कफः । छर्द्दितृट्छर्द्दिवैभत्स्यं काशः श्वासो भ्रमः क्लमः ॥ लोहितोऽलोहितो मत्स्यामगन्ध्यास्यञ्च विज्वरः । रक्तहारिद्रहरितवर्णता नयनादिषु ॥ नीललोहितपीतानां वर्णानामविचेतनम् । स्वप्ने तदर्थधर्म्मित्वं भवत्यस्मिन् भविष्यति ॥ ऊर्द्ध्वं नासाक्षिकर्णास्यैर्म्मेढ्रयोनिगुदैरधः । कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्त्तते ॥ ऊर्द्ध्वं साध्यं कफाद्यस्मात् तद्बिरेचनसाधितम् । बह्वौषधञ्च पित्तस्य विरेको हि वरौषधम् ॥ अनुबन्धी कफो यश्च तत्र तस्यापि शुद्धिकृत् । कषायाः स्वादवो यस्य विशुद्धे श्लेष्मलोहिताः ॥ कटुतिक्तकषाया वा ये निसर्गात् कफावहाः । अधो याप्यञ्च नामुष्मात् तत् प्रवर्द्धनसाधनम् ॥ अल्पौषधञ्च पित्तस्य वमनं ननु चौषधम् । अनुबन्धि च लोपस्य शान्तपित्तनरस्य तत् ॥ कषायाश्च हितास्तस्य मधुरा एव केवलम् । कफमारुतसंस्पृष्टमसाध्यमुपनायनम् ॥ असह्यप्रतिलोमत्वादसाध्यादौषधस्य च । नहि संशोधनं किञ्चिदस्य च प्रतिलोमनम् ॥ शोधनं प्रतिलोमञ्च रक्तपित्ते विनिर्ज्जितम् । एवमेवोपशमनं सर्व्वशोधनमिष्यते ॥ संसृष्टेष्वाह दोषेषु सर्व्वथा छर्द्दनं हितम् । तत्र दोषोऽत्र गमनं शिवास्त्र इव लक्ष्यते । उपद्रवाश्च विकृतं फलतस्तेषु चाधिकम् ॥” इति गारुडे १५३ अध्यायः ॥ * ॥
तस्यौषधं यथा, —
“त्रिवृता त्रिफला श्यामा पिप्पली शर्क्करा मधु । मोदकः सन्निपातान्तो रक्तपित्तज्वरापहः ॥ वाशायां विद्यमानायामाशायां जीवितस्य च । रक्तपित्ती क्षयी कासी किमर्थमव्रसीदति ॥ अटरूषकमृद्वीकापथ्याक्वाथः सशर्करः । क्षौद्राढ्यः कासनश्वासरक्तपित्तनिवर्हणः ॥” इति गारुडे १७४ अध्यायः ॥ * ॥
अपि च । “तत्र रक्तपित्तस्य निदानपूर्व्विकां संप्राप्तिमाह । ‘घर्म्मव्यायामशोकाध्वव्यवायैरतिसेवितैः । तीक्ष्णोष्णक्षारलवणैरम्लैः कटुभिरेव च । पित्तं विदग्धं स्वगुणैर्व्विदहत्याशु शोणितम् ॥’ तीक्ष्णं मरिचादि । उष्णोऽग्नितापादिः । क्षारो यवक्षारादिः । विदग्धं दूषितम् । स्वगुणैः स्वकारणैर्गुणैस्तीक्ष्णादिभिः । गुणैरिति बहु- त्वेन तीक्ष्णाम्ललवणकटूष्णघर्म्मादयो गृह्यन्ते । विदहति दूषयति ॥ * ॥
रक्तपित्तस्य सामान्य- लक्षणमाह । ‘ततः प्रवर्त्तते रक्तमूर्द्ध्वं वाधो द्बिधापि वा ।’ रक्तमित्युपलक्षणम् । तत्संसर्गि पित्तञ्च । अत- एव रक्तञ्च पित्तञ्च रक्तपित्तमिति द्बन्द्व इति सुश्रुतः ॥ रक्तञ्च तत् पित्तञ्चेति रक्तपित्तं राग- प्राप्तं पित्तमिति कर्म्मधारय इति चरकः ॥ मार्गानाह । ‘ऊर्द्ध्वं नासाक्षिकर्णास्यैर्म्मेढ्रयोनिगुदैरधः । कुपितं रोमकूपैश्च समस्तैस्तत् प्रवर्त्तते ॥’ कुपितमतिकुपितम् ॥ * ॥
पूर्ब्बरूपमाह । ‘सदनं शीतकामित्वं कण्ठधूमायनं वमिः । लोहगन्धिश्च निश्वासो भवत्यस्मिन् भविष्यति ॥’ विशिष्टं रूपमाह । ‘सान्द्रं सपाण्डु सस्नेहं पिच्छिलञ्च कफान्वितम् । श्यावारुणं सफेणञ्च तनुरूक्षञ्च वातिकम् ॥ रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम् । मेचकागारधूमाभमञ्जनाभञ्च पैत्तिकम् । संसृष्टलिङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् ॥’ सपाण्डु ईषत्पाण्डु । पिच्छिलं मयूरपिच्छच्छवि- युक्तम् । कृष्णं कज्जलाभम् । मेचकं चिक्कण- कृष्णवर्णम् । अञ्जनं श्रोतोऽञ्जनं तदाभम् ॥ * ॥
संसर्गाविशेषेण मार्गभेदमाह । ‘ऊर्द्ध्वगं कफसंसृष्टमधोगं मारुतानुगम् । द्बिमार्गं कफवाताभ्यां उभाभ्यां तत्प्रवर्त्तते ॥’ * ॥
उपद्रवानाह । ‘दौर्ब्बल्यश्वासकासज्वरवमथुमदाः पाण्डुता दाहमूर्च्छा भुक्ते घोरो विदाहस्त्वधृतिरपि सदा हृद्य- तुल्या च पीडा । तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूति- निष्ठीवनञ्च द्बेषो भुक्तेऽविपाको विकृतिरपि भवेद्रक्तपि- त्तोपसर्गाः ॥’ उपसर्गा उपद्रवाः । विकृतिर्मांसप्रक्षालनाभ- त्वादिः ॥ * ॥
साध्यत्वादिकमाह । ‘एकदोषानुगं साध्यं द्बिदोषं याप्यमुच्यते । यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत् ॥ ऊर्द्धं साध्यमधो याप्यमसाध्यं युर्गपद्गतम् । व्याधिभिः क्षीणदेहस्य वृद्धस्यानश्नतश्च यत् ॥’ साध्यमाह । ‘एकमार्गं बलवतो नातिवेगं न चोत्थितम् । रक्तपित्तं सुखे काले साध्यं स्यान्निरुपद्रवम् ॥’ सुखे काले हिमशिशिरयोः ॥ * ॥
असाध्यमाह । ‘मांसप्रक्षालनाभं क्वथितमिव च यत् कर्दमाम्भो- निभं बा मेदः पूयास्रकल्पं यकृदिव यदि वा पङ्कजं वा कफाभम् । यत् कृष्णं यच्च नीलं भृशमपि कुणपं यत्र चोक्ता विकारा- स्तद्धर्ज्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति ॥’ उक्ता विकारा दौर्ब्बल्यादयः । सुरपतिधनुषा तुल्यं नानावर्णम् । ‘येन चोपहतो रक्तं रक्तपित्तन मानवः । पश्येद्दृश्यं वियच्चापि तच्चासाध्यमसंशयम् ॥’ येन रक्तपित्तेन उपहतो मनुष्यः दृश्यं घटपटा- दिकं वियच्च रक्तं पश्यति स नश्यति वियच्चापि अदृश्यमपीत्यर्थः ॥ * ॥
अरिष्टमाह । ‘लोहितं छर्दयेद्यस्तु बहुशो लोहितेक्षणः । लोहितोद्गारदर्शी च म्रियते रक्तपित्तकः ॥’ लोहितोद्गारदर्शी व्याधिमहिम्नोद्गारमपि लोहितं पश्यति इत्यर्थः ॥ * ॥
अथ रक्तपित्तस्य चिकित्सा । ‘पित्तास्रं स्तम्भयेन्नादौ प्रवृत्तं बलिनोऽन्नतः । हृत्पाण्डुग्रहणीरोगप्लीहगुल्मज्वरादिकृत् ॥ शालिषष्टिकनीवारकोरदूषप्रसाधिकाः श्यामाकाश्च प्रियङ्गुश्च भोजनं रक्तपित्तिनाम् ॥’ प्रियङ्गुः कङ्गुः । ‘मसूरमुद्गचणकाः समकुष्ठाढकीफलाः । प्रशस्ताः सूपयूषार्थे कल्पिता रक्तपित्तिनाम् । दाडिमामलकं विद्बानम्लार्थे चापि दापयेत् । पटोलनिम्बवेत्राग्रप्लक्षवेतसपल्लवाः ॥ शाकार्थे शाकसात्म्यानां तण्डुलीयादयो हिताः । पारावतान् कपोतांश्च लावान्रक्ताक्षवर्त्तकान् ॥ शशान् कपिञ्जलानेणान् हरिणान् कालपुच्छ- कान् । रक्तपित्तहरान् विद्याद्रसांस्तेषां प्रयोजयेत् ॥ ईषदम्लाननम्लांश्च घृतभृष्टान् ससैन्धवान् । कफानुग्रे यूषशाके दद्याद्बातानुगे रसम् ॥ पथ्यं सतिलयूषेण ससितालाजशक्तुभिः । धान्याकधात्रीवासानां द्राक्षापर्पटयोर्हिमः । रक्तपित्तं ज्वरं दाहं तृष्णां शोषञ्च नाशयेत् ॥’ धान्याकादेर्हिमः ॥ * ॥
‘ह्रीवेरमुत्पलं ध्यान्यं चन्दनं यष्टिकामृता । उषीरञ्च वृषश्चैषां क्वाथं समधुशर्करम् ॥ पाययेत्तेन सद्यो हि रक्तपित्तं प्रणश्यति । रक्तपित्तं जयत्युग्रं तृष्णां दाहं ज्वरं तथा ॥ * ॥
पुराणं पीनमानीय कुष्माण्डस्य फलं दृढम् । तद्बीजाधारबीजत्वक्शिराशून्यं समाचरेत् ॥ ततस्तस्य तुलां नीत्वा पचेज्जलतुलाह्वये । तस्मिन्नीरेऽर्द्धशिष्टे तु यत्नतः शीतलीकृते ॥ तानि कुष्माण्डखण्डानि पीडयेद्दृढवाससा । यत्नतस्तज्जलं नीत्वा पुनः पाकाय धारयेत् ॥ कुष्माण्डं शोषयेद्घर्म्मे ताम्रपात्रे ततः क्षिपेत् । क्षिप्त्वा तत्र घृतप्रस्थं कुष्माण्डं तेन भर्ज्जयेत् ॥ मधुवर्णं तदालोक्य तज्जलं तत्र निःक्षिपेत् । सितायाश्च तुलां तत्र क्षिप्त्वा तल्लेहवत् पचेत् ॥ सुपक्वे पिप्पलीशुण्ठीजीराणां द्वे पले पृथक् । पृथक् पलार्द्धं धन्याकपत्रैलामरिचं त्वचम् ॥ चूर्णमेषां क्षिपेत्तत्र घृतार्द्धं क्षौद्रमावपेत् । एतत् पलमितं खादेदथवाग्निबलं यथा ॥ खण्डकुष्माण्डलेहोऽयं रक्तपित्तं विनाशयेत् । पित्तज्वरं तृषां दाहं प्रदरं कृशतां वमिम् ॥ स्वरभेदं सहृद्रोगं कासं श्वासं क्षतं क्षयम् । नाशयत्येव वृष्योऽयं बृंहणो बलवर्द्धनः ॥’ इति खण्डकुष्माण्डावलेहः ॥ * ॥
‘शतावरीमूलकल्कं कल्कात् क्षीरं चतुर्गुणम् । क्षीरतुल्यं घृतं गव्यं सितया कल्कतुल्यया ॥ घृतशेषं पचेत्तत्तु पलार्द्धं लेहयेत् सदा । रक्तपित्तं ह्मम्लपित्तं क्षयं श्वासञ्च नाशयेत् ॥’ शतावरीपाकः । इति रक्तपित्ताधिकारः ॥” इति भावप्रकाशः ॥ (तथास्य सनिदानपूर्ब्बरूपलक्षणं सम्प्राप्तिश्च । “पित्तं यथा भूतं लोहितपित्तसंज्ञां लभते तत्तथानुव्याख्यास्यामः । यदा यस्तु जन्तुर्यव- कोद्दालककोरदूषकप्रायाण्यन्नानि नित्यं भुङ्क्ते भृशोष्णतीक्ष्णमपि चान्यदन्नजातं निष्पावमाष- कुलत्थक्षारसूपोपहितं दधिमण्डोदश्वित् कट्वम्ल- काञ्जिकोपहितं वाराहमाहिषाविकमत्स्यगव्य- पिशितं पिण्याकं पिण्डालकशाकोपहितं मूलक-सर्षपलशुनकरञ्जशिग्रुकखरयूषभूस्तृणक- सुमुखसुरसकुठेरकण्डीरकालक-पर्णासक्षवक- फणिज्झकोपदंशं सुरासौवीरतुषोदकभैरेय- मेदकमधूलककुवरवदराम्लप्रायानुपानं पिष्टान्नो- त्तरभूयिष्ठमुष्णाभितप्तो चातिमात्रमतिवेलं वा पयसा समश्नाति रौहिणीकलकङ्कापोतं वा सर्षपतैलक्षारसिद्धं कुलत्थमाषपिण्याकजाम्बव- लकुचपक्वैः शौक्तिकैर्वा सह क्षीरमाममतिमात्र- मथवा पिबत्युष्णाभितप्तस्तस्यैवमाचरतः पित्तं प्रकोपमापद्यते । लोहितञ्च स्वप्रमाणमतिवर्त्तते । तस्मिन् प्रमाणातिप्रवृत्ते पित्तं प्रकुपितं शरीर- मनुसर्पद्यदैव यकृत्प्लीहप्रभवानां लोहित- वहानां श्रोतसां लोहिताभिष्यन्दगुरूणि मुखा- न्यासाद्य प्रतिपद्यते तदैव लोहितं दूषयति । संसर्गान्तर्लोहितप्रदूषणाल्लोहितगन्धवर्णानु- विधानाच्च पित्तं लोहितमित्याचक्षते । तस्ये- मानि पूर्ब्बरूपाणि । तद्यथा । अनन्नाभि- लाषो भुक्तस्य विदाहः शुक्ताम्लरसगन्ध उद्- जरच्छन्दषोऽभीक्ष्णागमनं छर्द्दितस्य वीभत्सता स्वरभेदो गात्राणां सदनं परिदाहश्च मुखा- द्धूमागम इव लोहलोहितमत्स्यामगन्धित्व- मपि चास्यस्य रक्तहरितहारिद्रवत्त्वमङ्गावयव- शकृन्मूत्र-स्वेदलालाशिङ्घानकास्यकर्णमलपिड- कोलिकापिडकारामसंवेदनालोहितनीलपीत- श्यावानामर्च्चिष्मताञ्च रूपाणां स्वप्नदर्शन- मभीक्ष्णमिति लोहितपित्तपूर्ब्बरूपाणि । उप- द्रवास्तु खलु दौर्ब्बल्यारोचकाविपाकश्वास- कासज्वरातीसारशोफशोषपाण्डुरोगस्वरभेदाः । मार्गौ पुनरस्य द्बौ ऊर्द्ध्वञ्चाधश्च तद्बहुश्लेष्मणि शरीरे श्लेष्मसंसर्गादूर्द्ध्वं प्रपद्यमानं कर्णनासिका- नेत्रास्येभ्यः प्रच्यवते । बहुवाते तु शरीरे वात- संसर्गादधः प्रपद्यमानं मूत्रपुरीषमार्गाभ्यां प्रच्यवते । बहुवातश्लेष्मणि तु शरीरे श्लेष्मवात- संसर्गादद्बावपि मार्गौ प्रपद्यते । तौ मार्गौ प्रपद्यमानं सर्व्वेभ्य एव यथोक्तेभ्यः खेभ्यः प्रच्य- वते शरीरस्य । तत्र यदूर्द्ध्वभागं तत्साध्यं विरे- चनोपक्रमणीयत्वात् बह्वौषधत्वाच्च । यदधो- भागं तदयाप्यं वमनोपक्रमणीयत्वात् अल्पौषध- त्याच्च । यदुभयभागं तदसाध्यं वसनविरेचना योगित्वादनौषधत्वाच्च । रक्तपित्तप्रकोपस्तु खलु पुरा दक्षयज्ञोद्ध्वंसे रुद्रकोपामर्शाग्निना प्राणिनां परिगतशरीरप्राणानामनुज्वरमभवत् । तस्या- शुकारिणो दावाग्नेरिवापतितस्यात्ययिकस्याशु प्रशान्तौ यतितव्यं मात्रां देशं कालञ्चाभि- समीक्ष्य सन्तर्पणेनापतर्पणेन वा मृदुमधुर- शिशिरतिक्तकषायैरभ्यवहार्य्य प्रदेहपरिषेका- वगाहसंस्पर्शनैर्वमनाद्यैर्वा तत्रावहितेनेति ॥” संक्षेपतोऽस्योपशमनोपायो यथा, —
“साध्यं लोहितपित्तं तद्यदूर्द्ध्वं प्रतिपद्यते । विरेचनस्य योगित्वाद्बहुत्वाद्भेषजस्य च ॥ वमनं नहि पित्तस्य हरणे श्रेष्ठमुच्यते । यश्च तत्रानुगो वायुस्तच्छान्त्यै चावरं मतम् ॥ स्याच्च योगावहन्तत्र कषायं तिक्तकानि च । तस्माद्याप्यं समाख्यातं यद्रक्तमनुलोमगम् ॥ रक्तपित्तन्तु यन्मार्गौ द्वावपि प्रतिपद्यते । असाध्यमपि तज्ज्ञेयं पूर्ब्बोक्तादपि कारणात् ॥ नहि संशोधनं किञ्चिदस्त्यस्य प्रतिमार्गगम् । प्रतिमार्गञ्च हरणं रक्तपित्ते विधीयते ॥ एवमेवोपशमनं सर्व्वशो नास्य विद्यते । संसृष्टेषु च दोषेषु सर्व्वजिच्छमनं मतम् ॥ इत्युक्तं त्रिविधोदर्कं रक्तं मार्गविशेषता ॥ एभ्यस्तु खलु हेतुभ्यः किञ्चित् साध्यं न सिध्यति । प्रेष्योपकरणाभावात् दौरात्म्याद्बैद्यदोषतः ॥ अकर्म्मतश्च साध्यत्वं कश्चिद्रोगोऽतिवर्त्तते । तत्र साध्यत्वमेकं स्यात् साध्ययाप्यपरि- क्रमात् ॥ रक्तपित्तस्य विज्ञानमिदं तस्योपदेक्ष्यते । यत् कृष्णमथवा नीलं यद्बा शक्रधनुष्प्रभम् ॥ रक्तपित्तमसाध्यन्तद्वाससो रञ्जनञ्च यत् । भृशं पूत्यतिमात्रञ्च सर्व्वोपद्रववच्च यत् ॥ बलमांसक्षये यच्च तच्च रक्तमसिद्धिमत् ॥ येन चोपहतो रक्तं रक्तपित्तेन मानवः । पश्येद्दृश्यं वियच्चैव तच्चासाध्यमसंशयम् ॥ तत्रासाध्यं परित्यज्यं याप्यं यत्नेन यापयेत् । साध्यञ्चावहितः सिद्धैर्भेषजैः साधयेद्भिषक् ॥ कारणं नाम निर्व्वृत्तिं पूर्ब्बरूपाण्युपद्रवान् । मार्गो दोषानुबन्धञ्च साध्यत्वं न च हेतुमत् ॥ निदाने रक्तपित्तस्य व्याजहार पुनर्व्वसुः । वीतमोहरजोदोषलोभमानमदस्पृहः ॥” इति चरके निदानस्थाने द्वितीयेऽध्याये ॥ * ॥
अथास्य चिकित्सायां रसाः । “सूतं गन्धं माक्षिकञ्चैव लौहं सर्व्वं घृष्टं त्रैफलेनोदकेन । लोहे पात्रे गोमयैः पाचयित्वा रात्रौ दह्यात् रक्तपित्तप्रशान्त्यै ॥ इति सुधानिधीरसः ॥ मृताभ्रमुण्डतीक्ष्णञ्च माक्षिकं रसतालकम् । गन्धकञ्च भवेत्तुल्यं यष्टिद्राक्षामृताद्रवैः ॥ दिनैकं मर्द्दयेत् खल्वे सिताक्षौद्रयुतावटी । माषामात्रा निहन्त्याशु रक्तपित्तं सुदारुणम् । ज्वरं दाहं तृषां वान्तिं शीषं पित्तान्तको रसः ॥ इति रक्तपित्तान्तको रसः ॥ शर्करातिलसंयुक्तं त्रिकत्रययुतन्त्वयः । रक्तपित्तं निहन्त्याशु अम्लपित्तहरं परम् ॥ इति शर्कराद्यं लौहम् ॥” इति वैव्यकरसेन्द्रसारसंग्रहे रक्तपित्ताधिकारे ॥ अथास्य पथ्यापथ्यविधिः । “अधोगते छर्दनमूर्द्ध्वनिर्गमे विरेचनं स्यादुभयत्र लङ्घनम् । पुरातनाः षष्टिकशालिकोद्रव- प्रियङ्गुनीवारयवप्रसातिकाः ॥ मुद्गा मसूराश्चणकास्तु वर्य्यो- मुकुष्टकाश्चिङ्गटवर्म्मिमत्स्याः । शशः कपोतो हरिणैनलाव- शरालिपारावंतवर्त्तकाश्च ॥ वका उरभ्राश्च सकालपुच्छाः कपिञ्जलाश्चापि कषायवर्गः । गवामजायाश्च पयो घृतञ्च घृतं महिष्याः पनसं पियालम् ॥ रम्भाफलं कञ्चटतण्डुलीय- पटोलवेत्राग्रमहार्द्रकाणि । पुराणकुष्माण्डफलञ्च पक्व- फलानि तद्बीजजलानि वासा ॥ स्वादूनि विम्बानि च दाडिमानि खर्ज्जूरधात्रीमिषिनारिकेलम् । कशेरुशृङ्गाटमरुष्कराणि कपित्थशालूकपरूषकाणि ॥ भूनिम्बशाकं पिचुमर्द्दपत्रं तुम्बीकलिङ्गानि च लाजसक्तुः । द्राक्षा सिता माक्षिकमैक्षवश्च शीतोदकञ्चौद्भिदवारि चापि ॥ सेकोऽवगाहः शतधौतसर्पि- रभ्यङ्गयोगः शिशिरप्रदेहः । हिमानिलश्चन्दनमिन्दुपादाः कथा विचित्राश्च मनोऽनुकूलाः ॥ धारागृहं भूमिगृहं सुशीतं वैदूर्य्यमुक्तामणिधारणञ्च । रम्भोत्पलाम्भोरुहपत्रशय्या क्षौमाम्बरञ्चोपवनं सुशीतम् ॥ प्रियङ्गुकाचन्दनरूषिताना- मालिङ्गनञ्चापि वराङ्गनानाम् । पद्माकराणां सरितां ह्रदानां चन्द्रोदयानां हिमवद्दरीणाम् ॥ सुशीतलानां गिरिनिर्झराणां स्रुतिः प्रशस्तानि च कीर्त्तितानि । प्रणीरनीरं हिमवालुका च मित्रं नृणां शोणितपित्तरोगे ॥” अथापथ्यानि । “व्यायामाध्वनिषेवणं रविकरस्तीक्ष्णानि कर्म्माणि च । क्षोभो वेगविधारणञ्चपलता हस्त्यश्वयानानि च ॥ स्वेदास्रस्रुतिधूमपानसुरतक्रोधाः कुलत्थो गुडो वार्त्ताकं तिलमाषसर्षपदधिक्षाराणि कौपं मयः ॥” इति वैद्यकपथ्यापथ्यविधौ रक्तपित्ताधिकारः ॥)



Correction: