संस्कृत-शब्दकोशः

रक्तपुष्पक रक्तपुष्पिका

रक्तपुष्पा

शब्दकल्पद्रुमः

रक्तपुष्पा || स्त्री (रक्तं पुष्पं अस्याः ।)
शाल्मलि- वृक्षः । इति जटाधरः ॥ (अस्याः पर्य्यायो यथा, —
“शाल्मलिस्तु भवेन्मोचा पिच्छिला पूरणीति च । रक्तपुष्पा स्थिरायुश्च कण्टकाढ्या च तूलिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पुनर्नवा । तत्पर्य्यायो यथा, —
“पुनर्नवा परारक्ता रक्तपुष्पा शिलाटिका ॥” सिन्दूरी । तत्पर्य्यायो यथा, —
“सिन्दूरी रक्तबीजा च रक्तपुष्पा सुकोमला ॥” इति भावप्रकाशः ॥)



Correction: