वाचस्पत्यम्
रक्तपुष्पिका || स्त्री रक्तानि पुष्पाणि यस्याः कप् अत इत्त्वम् । १ लज्जालुलतायाम् शब्दच० २ रक्तपुन- र्नवायाम् ३ भूमिपाटलौ च राजनिघण्टुः ।
शब्दकल्पद्रुमः
रक्तपुष्पिका || स्त्री (रक्तपुष्पा + कन् । टापि अत इत्वम् ।)
लज्जालुः । इति शब्दचन्द्रिका ॥ रक्तपुनर्नवा । भूपाटलिः । इति राजनिर्घण्टः ॥