संस्कृत-शब्दकोशः

रक्ताम्र रक्तार्बुद

रक्ताम्लान

वाचस्पत्यम्

रक्ताम्लान ||‍ पु० कर्म० । रक्तमहासहालतायाम् राजनि० ।


शब्दकल्पद्रुमः

रक्ताम्लानः || पुं, (रक्तेन रक्तवणन आ सम्यक् म्लायते इति । म्ला + क्तः । समधिकरक्तवर्णत्वा- त्तथात्वम् ।)
रक्तवर्णपुष्पविशेषः । तत्पर्य्यायः । रक्तसहा २ अपरिम्लानः ३ रक्ताम्लानकः ४ राग- प्रसवः ५ रक्तप्रसवः ६ कुरुवकः ७ रामालिङ्गन- कामः ८ बधूत्सवप्रसवः ९ सुभगः १० भ्रमरा- नन्दः ११ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । वातामयशोफज्वराध्मानशूलकाशश्वासार्त्तिप्रश- मनत्वम् । वर्ण्यत्वञ्च । इति राजनिर्घण्टः ॥



Correction: