वाचस्पत्यम्
रक्तिका || स्त्री रक्तेव कन् अत इत्त्वम् । १ गुञ्जायां २ राजि- कायां राजनि० ३ परिमाणभेदे रत्तिकापरिमाणे च ।
शब्दकल्पद्रुमः
रक्तिका || स्त्री (रक्तो रक्तवर्णोऽस्त्यस्याः । रक्त + “अत इनिठनौ ।” ५ । २ । ११५ । इति ठन् ।)
गुञ्जा । (अस्याः पर्य्यायो यथा, —
“साङ्गुष्ठा कृष्णला गुञ्जा रक्तिका काकणन्तिका । काकादनी काकतिक्ता काकजङ्घा शिखण्डनी ॥” इति वैद्यकरत्नमालायाम् ॥ “रक्ता सा काकचिञ्ची स्यात् काकणन्ती च रक्तिका । काकादनी काकपीलुः सा स्मृता काकवल्लरी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
राजिका । इति राजनिर्घण्टः ॥ रक्तिका- परिमाणञ्च ॥