वाचस्पत्यम्
रक्ष || पालने भ्वा० पर० सक० सेट् । रक्षति अरक्षीत् ररक्ष । ञीत् रक्षितो वर्त्तते ।
शब्दकल्पद्रुमः
रक्ष || ञि पालने । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) ञि, रक्षितोऽस्ति । इति दुर्गादासः ॥