संस्कृत-शब्दकोशः

रक्षःसभ रक्षा

रक्षस्

वाचस्पत्यम्

रक्षस् ||‍ न० रक्ष्यते हविरस्मात् रक्ष—अपादानेऽसुन् । राक्षसे अमरः ।


शब्दकल्पद्रुमः

रक्षः || [स्] क्ली, (रक्षत्यस्मादिति । रक्ष + “सर्व्वधातुऽभ्योसुन् ।” उणा० ४ । १८८ । इति असुन् ।)
राक्षसः । इत्यमरः । १ । १ । ६२ ॥ तद्विशेषो यथा, —
“दृष्ट्वा तु विकलान् व्यङ्गाननाथान् रोगिणस्तथा दया न जायते यस्य स रक्ष इति मे मतिः ॥” इत्याग्नेये यमशर्म्मिलोपाख्याननामाध्यायः ॥ रक्षोघ्नौषधं यथा, — मनुरुवाच । “रक्षोघ्नानि विषघ्नानि यानि धार्य्याणि भूभुजा । अगदानि समाचक्ष्व तानि धर्म्मभृतांवर ॥ मत्स्य उवाच । पत्रिका रोहिणी चैव रक्तमाला महौषधी । तथामलकवन्दारं या च चित्रपटोलिका ॥ काकोली क्षीरकाकोली पीलुपर्णी तथैव च । केशिनी वृश्चिकाली च महानागा शतावरी ॥ तथा गरुडवेगा च स्थले कुमुदिनी तथा । स्थले चोत्पलिनी या च महाभूमिलता च या । उन्मादिनी सोमराजी सर्व्वरत्नानि पार्थिव । विशेषान्मरकतान्यत्र कीटपक्ष्यविशेषतः ॥ जीवजाताश्च मणयः सर्व्वे धार्य्या विशेषतः । रक्षोघ्नाञ्च यशस्याश्च कृत्या वेतालनाशनाः ॥” इति मात्स्ये १९२ अध्यायः ॥



Correction: