संस्कृत-शब्दकोशः

रक्षिका रक्षितृ

रक्षित

वाचस्पत्यम्

रक्षित ||‍ त्रि० रक्ष्यतेऽत्र रक्ष—क्त । १ भाण्डे । २ वैद्यभेदे पु० ।


शब्दकल्पद्रुमः

रक्षितं || त्रि (रक्ष + क्तः ।)
कृतरक्षम् । तत्- पर्य्यायः । त्रातम् २ त्राणम् ३ अवितम् ४ गोपायितम् ५ गुप्तम् ६ । इत्यमरः । ३ । १ । १०६ ॥ (यथा, मनुः । ११ । २३ । “कल्पयित्वास्य वृत्तिञ्च रक्षेदेनं समन्ततः । राजा हि धर्म्मषड्भागं तस्मात् पाप्नोति रक्षितात् ॥” क्ली, भावे क्तः । रक्षा ॥ * ॥
स्त्रियां टाप् । अप्सरोविशेषः । यथा, महाभारते । १ । ६५ । ५० । “अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा । अरुणा रक्षिता चैव रम्भा तद्बन्मनोरमा ॥”)



Correction: