वाचस्पत्यम्
रक्षोहन् || पु० रक्षो हन्ति हन + क्विप् । १ गुग्गुलौ राजनि० तद्गन्धघ्राणाद्धि रक्षसामपसरणम् । २ श्वेतसर्षपे पु० । ३ राक्षसहन्तरि त्रि० । “रक्षहणं बलगहनम्” यजु० ५ । २३
शब्दकल्पद्रुमः
रक्षोहा || [न्] पुं, (रक्षो हन्तीति । हन् + क्विप् ।)
गुग्गुलुः । इति राजनिर्घण्टः ॥ (ऋषिविशेषः । स तु ऋग्वेदस्य १० मण्डलस्य १६२ सूक्तस्य ऋषिः ॥ राक्षसहन्तरि, त्रि । यथा, ऋग्वेदे । १० । ९७ । ६ । “विप्रः स उच्यते भिषग्रक्षोहा मीवचातनः ॥” “रक्षोहा रक्षोहन्ता ।” तद्भाष्ये सायणः ॥)