संस्कृत-शब्दकोशः

रघुवर रघुवंशतिलक

रघुवंश

वाचस्पत्यम्

रघुवंश ||‍ पु० ६ त० । रघुकुले । तमधिकृत्य कृतो ग्रन्थः आख्यायिकायां तस्य लुक् । कालिदासप्रणीते ऊन- विंशतिसर्गात्मके महाकाव्यभेदे पु० ।


शब्दकल्पद्रुमः

रघुवंशः || पुं, क्ली, (रघोर्वंशः सन्ततिर्वर्णनीयो यस्मिन् । यद्बा रघूणां वंशमधिकृत्य कृतमिति अण् लुक् च ।)
कालिदासकृतरघुराजान्वय- वर्णनमहाकाव्यग्रन्थविशेषः । यथा, —
“रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् । तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥” इति रघुवंशे महाकाव्ये । १ । ९ ॥ (अयं हि ऊनविंशसर्गात्मको ग्रन्थः । अत्र दिलीपादारभ्य अग्निवर्णपर्य्यन्तं वस्तु वर्णि- तम् ॥ पुं, रघोर्वंशः । यथा, —
“जयति रघुवंशतिलकः कौशल्यानन्दिवर्द्धनो रामः ॥” इति रामायणम् ॥)



Correction: