संस्कृत-शब्दकोशः

रङ्कु रङ्गकाष्ठ

रङ्ग

वाचस्पत्यम्

रङ्ग ||‍ पुंन० रगि—अच् । १ धातुभेदे (राङ) राजनि० । रन्ज—भावे घञ् । २ रागे । आधारे घञ् । ३ रणभूमौ ५ नाट्यस्थाने च अमरः । करणे घञ् । ४ नृत्ये मेदि० । ६ टङ्कणे (सो- हागा) ७ खादिरसारे च राजनि० । रङ्गधातोः शो “धनप्रकारो भावप्र० उक्तो यथा “र(व)ङ्गनागौ प्रतप्तौ च गलितौ तौ निषेचयेत् । त्रिधा त्रिधा विशुद्धिः स्याद्रवि दुग्धेऽपि च त्रिधा” । तैलतक्रकाञ्जिकगोमूत्रकुलत्थक्वाथेषु प्रत्येकं त्रिधा त्रिधा । अथ रङ्गस्य मारणविधिः । “मृत्पात्रे द्राविते र(व)ङ्गे चिञ्चाश्वत्थत्वचोरजः । क्षिप्त्वा र(व)ङ्गचतुर्थांशमयोदर्व्या प्रचालयेत्” । चिञ्चा(अमिली) रजश्चूर्णम् । अयोदर्वी (करछुली) । “ततोद्वियाममात्रेण र(व)ङ्गं भस्म प्रजायते । अथ भस्मसमं तालं क्षिप्त्वाम्लेन विवर्द्धयेत् । ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत् । तालेन दशमांशेन याममेकं ततः पुटेत् । एवं दशपुटैः पक्वं र(व)ङ्गं भवति मारितम् । एवं मारितस्य र(व)ङ्ग- स्य गुणाः । “रङ्गं लघु सरं रूक्षं कुष्ठमेहकफक्रमीन् । निहन्ति पाण्डुं सश्वासं नेत्रमीषत्तुपित्तलम् । सिंहोगजौघन्तु यथा निहन्ति तथैव र(व)ङ्गोऽखिल हेमवर्गम् । देहस्य सौख्यं प्रबलेन्द्रियत्वं नरस्य पुष्टिं विदधाति नूनम्” । तस्याशुद्धस्य दोषमाह “रङ्गोविधत्ते खलुशुद्धिहीनस्तथा ह्यपक्वश्च किलासगुल्मौ । कुष्ठानि- शूलं किल वातशोथं पाण्डुं प्रमेहञ्च भगन्दरञ्च । विषोपमं रक्तविकारवृन्दं क्षमञ्च कृच्छ्राणि कफज्वरञ्च । मेहाश्मरीविद्रधिमुख्यरोगान्नागोपि कुर्य्यात् कथितान् विकारान्” तद्भेदो यथा । “श्वेतं मृदु लघु स्वच्छं स्निग्धमुष्णसहं हिमम् । सूत्रपत्त्रकरं कान्तं त्रपु श्रेष्ठमुदाहृतम् । क्षुरकं मिश्रकञ्चापि द्विबिधं र(व)ङ्ग- मुच्यते । उत्तमं क्षुरकं तत्र मिश्रकं त्वहितं मतम्” । राजनि० ।


शब्दकल्पद्रुमः

रङ्गं || क्ली पुं, (रङ्गतीति । रङ्ग + अच् । रज्यते अस्मिन् । रन्ज् + अधिकरणे घञ् वा ।)
धातुविशेषः । राङ्ग इति भाषा ॥ तत्पर्य्यायः । त्रपुः २ त्रपुषम् ३ आपूषम् ४ वङ्गम् ५ मधु- रम् ६ हिमम् ७ कुरूप्यम् ८ पिच्चटम् ९ पूति- गन्धम् १० । अस्य गुणाः । कटुत्वम् । तिक्त- त्वम् । हिमत्वम् । कषायत्वम् । लवणरसत्वम् । मेहघ्नत्वम् । कृमिपाण्डुदाहशमनत्वम् । कान्ति- करत्वम् । रसायनत्वञ्च । तद्विशेषो यथा, —
“श्वेतं मृदु लघु स्वच्छं स्निग्धमुष्णसहं हिमम् । सूत्रपत्रकरं कान्तं त्रपुश्रेष्ठमुदाहृतम् ॥ क्षुरकं मिश्रकञ्चापि द्विविधं वङ्गमुच्यते । उत्तमं क्षुरकं तत्र मिश्रकं त्वहितं मतम् ॥” इति राजनिर्घण्टः ॥ तस्याशुद्धस्य दोषमाह । “वङ्गो विधत्ते खलु शुद्धिहीन- स्तथा ह्यपक्वश्च किलासगुल्मौ । कुष्ठानि शूलं किल वातशोथं पाण्डुं प्रमेहञ्च भगन्दरञ्च ॥ विषोपमं रक्तविकारवृन्दं क्षयञ्च कृच्छ्राणि कफज्वरञ्च । मेहाश्मरीविद्रुधिमुख्यरोगान् नागोऽपि कुर्य्यात् कथितान् विकारान् ॥” तस्य शोधनमभिधीयते । “वङ्गनागौ प्रतप्तौ च गलितौ तौ निषेचयेत् । त्रिधा त्रिधा विशुद्धिः स्याद्रविदुग्धेऽपि च त्रिधा ॥ तैलतक्रकाञ्जिकगोमूत्रकुलत्थक्वाथेषु प्रत्येकं त्रिधा त्रिधा । ततोऽर्कदुग्धे त्रिधा ॥ * ॥
अथ वङ्गस्य मारणविधिः । “मृत्पात्रे द्राविते वङ्गे चिञ्चाश्वत्थत्वचो रजः । क्षिप्त्वा वङ्गचतुर्थांशमयोदर्व्व्या प्रचालयेत् ॥” चिञ्चा अमिली । रजञ्चूर्णम् । अग्रोदर्व्वी कर- छुली । “ततो द्वियाममात्रेण वङ्गं भस्म प्रजायते । अथ भस्मसमं तालं क्षिप्त्वाम्लेन विवर्द्धयेत् ॥ ततो गजपुटे पक्त्वा पुनरम्लेन मर्द्दयेत् । तालेन दशमांशेन याममेकं ततः पुटेत् । एवं दशपुटैः पक्वं वङ्गं भवति मारितम् ॥” एवं मारितस्य वङ्गस्य गुणाः । “वङ्गं लघु सरं रूक्षं कुष्ठमेहकफकृमीन् । निहन्ति पाण्डुं सश्वासं नेत्र्यमीषत्तु पित्तलम् ॥ सिंहो गजौघन्तु यथा निहन्ति तथैव रङ्गोऽखिलहेमवर्गम् । देहस्य सौख्यं प्रबलेन्द्रियत्वं नरस्य पुष्टिं विदधाति नूनम् ॥” इति भावप्रकाशः ॥ (यथाच । “वङ्गं तिक्ताम्लकं रूक्षं किञ्चिद्वातप्रकोपणम् । मेदः श्लेष्मामयघ्नञ्च क्रिमिघ्नं मेहनाशनम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधिकारे ॥)


शब्दकल्पद्रुमः

रङ्गः || पुं, (रन्ज् + घञ् ।)
रागः । (यथा, महा- भारते । ५ । ३६ । १० । “वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥”)
नृत्यम् । (यथा विष्णुपुराणे । २ । ६ । २० । “रङ्गोपजीवी कैवर्त्तः कुण्डाशी गरदस्तथा । सूचीमाहिषिकश्चैव पर्व्वकारी च यो द्बिजः ॥” रजति आसज्जति मल्लोऽत्र । रन्ज् + अधि- करणे घञ् ।)
रणभूमिः । इति मेदिनी । गे, २१ ॥ (यथा, श्रीमद्भागवते । १० । ४३ । १७ । “वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥”)
नाट्यस्थानम् । इति हेमचन्द्रः ॥ (यथा, मृच्छकटिकप्रकरणे । १ । “इयं रङ्गप्रवेशेन कलानाञ्चोपशिक्षया । वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता ॥” लक्षणया नाट्यस्थानस्थितो जनः । यथा, अभि- ज्ञानशकुन्तले १ प्रस्तावनायाम् । “सूत्रधारः । आर्य्ये ! साधु गीतम् । अहो रागापहृतचित्तवृत्तिरालिखित इव विभाति सर्व्वतो रङ्गः । तदिदानीं कतमं प्रयोगमाश्रित्यै- नमाराधयामः ॥” राजमार्गः । यथा, देवी- भागवते । ७ । २२ । ३ । “अवतार्य्य तदा रङ्गे तां भार्य्यां नृपसत्तमः ॥”)
टङ्कणः । खादिरसारः । इति राजनिर्घण्टः ॥



Correction: