संस्कृत-शब्दकोशः

रङ्गभूति रङ्गमल्ली

रङ्गभूमि

वाचस्पत्यम्

रङ्गभूमि ||‍ स्त्री रज्यतेऽत्र रन्ज—आधारे घञ् कर्म० । १ नाट्यभूमौ शब्दर० । “रङ्गभमिं समासाद्य” इति सा० ६ प० । २ मल्लभूमौ च ।


शब्दकल्पद्रुमः

रङ्गभूमिः || स्त्री (रङ्गस्य भूमिः ।)
मल्लभूमिः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । १३५ । ९ । “अवघुष्टे समाजे च तदर्थं वदतां वरः । रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि ॥” रङ्गभूमिविवरणं यथा, अश्ववैद्यके । ७ । ११-१२ । “सान्द्रां सुकठिनाञ्चैव पाषाणोदकसंयुताम् । तृणकाष्ठसमायुक्तां रङ्गभूमिन्तु वर्ज्जयेत् ॥ समाञ्च विपुलाञ्चैव किञ्चित् पांशुसमन्विताम् । एकान्ते विजने रम्ये रङ्गभूमिन्तु कारयेत् ॥”)
नाट्यभूमिश्च ॥



Correction: