संस्कृत-शब्दकोशः

रचन रचित

रचना

वाचस्पत्यम्

रचना ||‍ स्त्री रच—युच् । रचने १ पुष्पपत्त्रादेर्विन्यासे अमरः । भावे ल्युट् । तत्रैवार्थे न० ।


शब्दकल्पद्रुमः

रचना || स्त्री (रच्यते इति । रच + णिच् + “ण्यास- श्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् ।)
कुसुमप्रकारादेः पत्रावल्यादेश्च रचनम् । तत्- र्य्यायः । परिस्पन्दः २ । इत्यमरः । २ । ६ । १३७ ॥ परिस्यन्दः ३ । इति भरतः ॥ (यथा, साहित्यदर्पणे । ३ । १४९ । “भूषाणामर्द्धरचना वृथा विश्वगवेक्षणम् । रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ॥”)
यथाक्रमेण स्थापनम् । तत्पर्य्यायः । निवेशः २ स्थितिः ३ । इति हेमचन्द्रः । ३ । ४११ ॥ (यथा, महाभारते । ८ । ४६ । १० । “शृणु व्यूहस्य रचनामर्ज्जुनश्च यथागतः ॥”)
निर्म्मितिः । कृतिः । यथा, —
“असाधारणचमत्कारकारिणी रचना हि निर्म्मितिः ॥” इत्यलङ्कारकौस्तुभे १ किरणः ॥ तत्पर्य्यायः । सन्दर्भः २ गुम्फः ३ स्रन्थनम् ४ । ग्रन्थनम् ५ । इति हेमचन्द्रः । ३ । ३१७ ॥ (उद्यमः । यथा, श्रीमद्भागवते । ३ । ९ । १० । “दैवाहतार्थरचना ऋषयोऽपि देव युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥” “दैवेनाहताः सर्व्वतः प्रतिहताः अर्थानां रचनाः अर्थार्थोद्यमाः येषाम् ।” इति तट्टी- कायां श्रीधरस्वामी ॥ रचयतीति । रचि + ल्युः । टाप् । विश्वकर्म्मणो भार्य्या । यथा, श्रीमद्भाग- वते । ६ । ६ । ४४ । “त्वष्टुर्दैत्यात्मजा भार्य्या रचना नाम कन्यका । सन्निवेशस्तयोर्ज्जज्ञे विश्वरूपश्च वीर्य्यवान् ॥”)



Correction: