संस्कृत-शब्दकोशः

रचित रजक

रज

वाचस्पत्यम्

रज ||‍ न० रन्ज—क । १ स्त्रीकुसुमे शब्दर० । २ परागे ३ रेणौ ४ गुणभेदे च पु० जान्ते शब्दच० ।


शब्दकल्पद्रुमः

रजं || क्ली (रञ्जयतीति । रञ्ज + अच् । निपा- तनात् सिद्धम् ।)
स्त्रीकुसुमम् । इति शब्द- रत्नावली ॥


शब्दकल्पद्रुमः

रजः || पुं, (रञ्जयतीति । रन्ज् + अच् । निपातना- न्नलोपः ।)
परागः । (यथा, गो० रामायणे । ३ । ७९ । २९ । “पद्मपुष्परजोन्मिश्रो वृक्षान्तरविनिःसृतः । निश्वास इव सीताया वायुर्वाति मनोरमः ॥”)
रेणुः । (“अर्थाः पादरजोपमाः ॥” इति उज्ज्वलदत्तः । ४ । २१६ ॥)
गुणभेदः । आर्त्तवम् । इति जान्तवर्गे शब्दरत्नावली ॥ (स्कन्दस्य सेनाविशेषः । यथा, महाभारते । ९ । ४५ । ७१ । “दण्डबाहुः सुबाहुश्च रजः कोकिलकस्तथा ॥” विरजपुत्त्रः । यथा, विष्णुपुराणे । २ । १ । ४० । “त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः ॥” वशिष्ठपुत्त्रः ऋषिभेदः । यथा, विष्णुपुराणे । १ । १० । १३ । “ऊर्ज्जायान्तु वशिष्ठस्य सप्ताजायन्त वै सुताः । रजो गात्रोर्द्ध्वबाहुश्च वसनश्चानघस्तथा ॥”)



Correction: