संस्कृत-शब्दकोशः

रजकी रजतद्युति

रजत

वाचस्पत्यम्

रजत ||‍ रन्ज—अतच् नलोपः । १ रूप्ये अमरः । २ गजे ३ दन्ते ४ रुधिरे ५ हारे ६ शैले ७ स्वर्णे ८ धवले च हेमच० । ९ शुक्लगुणवति त्रि० । रूप्यधातोरुत्पत्त्यादि भावप्र० उक्तं यथा “त्रिपुरस्य बधार्थाय निर्न्निमिषैर्विलोचनैः । निरीक्षया- मास शिवः क्रोधेन परिपूरितः । अग्निस्तत्कालमप- तत्तस्यैकस्माद्विलोचनात् । ततोरुद्रः समभवद्वैश्वानर इव ज्वलन् । द्वितीयादपतन्नेत्रादश्रुविन्दुस्तु वामकात् । तस्माद्रजतमुत्पन्नमुक्तकर्मसु योजयेत् । कृत्रिमञ्च भवेत्तद्धि वङ्गादिरसयोगतः । रूप्यन्तु रजतं तारञ्चन्द्रकान्ति सितप्रभम् । गुरु स्निग्धं मृदु श्वेतं दाहे छेदे घनं क्षमम् । वर्णाढ्यं चन्द्रवत् स्वच्छं रूप्यं नवगुणं शुभम् । कठिनं कृत्रिमं रूक्षं रक्तं पीतदलं लघु । दाहच्छेदघनैर्नष्टं कप्यं दुष्टं प्रकीर्त्तितम् । तारं शरीरस्य करोति तापं शतं घनं यच्छति शुक्रनाशम् । वीर्य्यं बलं हन्ति तनोश्च पुष्टिं महागदान् शोषयति ह्यशुद्धम्” । स्थानान्तरे तत्रैव तस्य शोधनविधिः “पत्तलीकृतपत्त्राणि तारस्याग्नौ प्रतापवेत् । निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके । गोमूत्रे च कुलत्थानां कषायेच त्रिधा त्रिधा । एवं रजतपत्त्राणां विशुद्धिः सम्प्रजायते” । अथाशुद्धस्य रूप्यस्य दोषमाह “रूप्य त्वशुद्धं प्रकरोति तापं विबन्धकं वीर्य्यबलक्षयञ्च । देहस्य पुष्टिं हरते तनोति रोषांस्ततः शोधनमस्य कुर्य्यात्” । अथ रूप्यमारणविधिः “भागैकं तालकं मद्यं याममम्लेन केनचित् । तेन भागत्रयं तारपत्त्राणि परिलेपयेत् । धृत्वा मूषाः पुटे रुद्ध्वा पुटेत् त्रिंशद्वनोपलैः । समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत् । एवं चतुर्द्दशपुटैस्तारम्भस्म प्रजायते” । अथान्य प्रकारः “स्नुहीक्षीरेण संपिष्टं माक्षिकं तेन लेपयेत् । तालकस्य प्रकारेण तारपत्त्रस्य बुद्धिमान् । पुटेच्चतुर्द्दश पुटैस्तारम्भस्म प्रजायते” । एवं मारितस्य रूप्यस्य गुणः “रौप्यं शीतं कषायञ्च स्वादु पाकरसं सरम् । वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् । प्रमेहादिक- रोगांश्च नाशयत्यचिराद् ध्रुवम् ।”


शब्दकल्पद्रुमः

रजतं || क्ली (रजति प्रियं भवति रज्यत इति वा । रन्ज + “पृषिरञ्जिभ्यां कित् ।” उणा० । ३ । १११ । इति अतच् कित्कार्य्यञ्च ।)
रूप्यम् । इत्यमरः । २ । ९ । ९६ ॥ हस्तिदन्तः । धवलः शोणितम् । हारः । ह्रदः । शैलः । (स तु शाकद्बीपस्थ एव । यथा, मात्स्ये १२१ । १४ । “रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत् । तस्यापरेण रजतो महानस्तो गिरिः स्मृतः ॥”)
स्वर्णम् । इति हेमचन्द्रः । ४ । १०९ ॥ शुक्ल- वर्णविशिष्ठे, त्रि । इत्यमरटीकायां भरतः ॥ पितृकार्य्ये रजतपात्रादीनां प्राशस्त्यादि यथा, “सौरर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते । रजतस्य कथा वापि दर्शनं दानमेव वा ॥ राजतैर्भाजनैरेषामथवा रजतान्वितैः । वार्य्यपि श्रद्धया दत्तमक्षयायोपकल्प्यते ॥ यथार्घ्यपिण्डभोज्यादौ पितणां राजतं मतम् । शिवनेत्रोद्भवं तस्माद्दत्तं तत् पितृवल्लभम् । अमङ्गलं तद्यज्ञेषु देवकार्य्येषु वर्ज्जितम् ॥” इति मात्स्ये १७ अध्यायः ॥



Correction: