संस्कृत-शब्दकोशः

रजनि रजनीकर

रजनी

वाचस्पत्यम्

रजनी is an alternate of रजनि. रजनि(नी) ||‍ स्त्री रज्यतेऽत्रं रन्ज—कनि वा ङीप् । १ रात्रौ २ हरिद्रायां ३ जतुकायाञ्च अमरः ।


शब्दकल्पद्रुमः

रजनी || स्त्री (रजनि + कृदिकारादिति ङीष् ।)
रात्रिः । (यथा, महाभारते । ३ । ६९ । २८ । “सा व्युष्ट्वा रजनीन्तत्र पितुर्वेश्मनि भाविनी । विश्रान्ता मातरं राजन् ! इदं वचनमब्रवीत् ॥”)
हरिद्रा ॥ (अस्याः पर्य्यायो यथा, —
“हरिद्रा पीतिका गौरी काञ्चनी रजनी निशा । मेहघ्नी रञ्जनी पीता वर्णिनी रात्रिनामिका ॥” इति वैद्यकरत्नमालायाम् ॥ यथा, नषधे । २२ । ४९ । “अस्याः सुराधीशदिशः पुरासीत् यदम्बरं पीतमिदं रजन्या । चन्द्रांशुचूर्णव्यतिचुम्बितेन तेनाधुना नूनमलोहितायि ॥”)
जतुका । इत्यमरः । २ । ४ । १५३ ॥ (यथा, बृहत्संहितायाम् । ४४ । ९ । “दन्त्यमृताञ्जनरजनीसुवर्णपूष्पाग्निमन्थाश्च ॥”)
नीलिनी । इति मेदिनी । ने, ११६ ॥ (शाल्मली- द्वीपस्थनदीभेदः । यथा, भागवते । ५ । २० । १० “अनुमती सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥”)



Correction: