वाचस्पत्यम्
रजस् || न० रन्ज असुन् नलोपः । १ कुसुम्भे अमरः । २ पुष्परेणौ ३ परागे ४ धूलौ मेदि० साङ्ख्योक्ते चलनादियुते ५ प्रकृति गुणभेदे च “सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च” रजः” सा० का० । “सत्त्वतमसी स्वयमक्रियतया स्वस्व- कार्य्यप्रवृत्तिं प्रत्यवसीदन्ती रजसोपष्टभ्येते अवसादात् प्रच्याव्य स्वकार्य्ये ते उत्साहं प्रयत्नं कार्य्येते तदिद- मुक्तमुपष्टम्भकं रज इति । कस्मादित्यत उक्तं चलमिति । तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम्” त० कौ० । ६ पृथिव्यां स्त्री ङीप् निघण्टुः ।
शब्दकल्पद्रुमः
रजः || [स्] क्ली, (रज्यते रजतीति । रन्ज् + “भू- रञ्जिभ्यां कित् ।” उणा० ४ । २१६ । इत्यसुन् ।)
स्त्रीणां मासि मासि योनिनिःसृतरक्तम् । तत्- पर्य्यायः । पुष्पम् २ आर्त्तवम् ३ । इत्यमरः । २ । ६ । २१ ॥ ऋतुः ४ कुसुमम् ५ रजम् ६ । इति शब्दरत्नावली ॥ (यथा, मनौ । ५ । १०८ । “रजसा स्त्री मनोदुष्टा सन्न्यासेन द्बिजोत्तमः ॥” अस्य लक्षणं यथा, —
“रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् । अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते ॥ रसादेव स्त्रिया रक्तं रजःसंज्ञं प्रवर्त्तते । तद्बर्षाद्बादशादूर्द्ध्वं याति पञ्चाशतः क्षयम् ॥” “नारीणां रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिवृद्धिर्भवति ।” इति सुश्रुते सूत्रस्थाने १४ अध्यायः ॥ “मासि मासि रजःस्त्रीणां रसजं स्रवति त्र्यहम् । वत्सराद्द्वादशादूर्द्धं याति पञ्चाशतः क्षयम् ॥” इति वाभटे शारीरस्थाने प्रथमेऽध्याये ॥)
प्रकृतेर्गुणविशेषः । तत्तु रागद्वेषात्मकं दुःख- हेतुः । रजोऽदन्तः पुंलिङ्गोऽपि । यथा, —
“रजोऽयं रजसा सार्द्धं स्त्रीपुष्पगुणधूलिषु ।” इत्यमरदत्तः । इति भरतः ॥ महाभारतमते दुःखजनकगुणः । तस्य धर्म्मः कामः क्रोधः लोभः मानः दर्पश्च । इति मोक्ष- धर्म्मः ॥ “तृष्णा क्रोधोऽभिसंरम्भो राजसास्ते गुणाः स्मृताः ॥” अभिसंरम्भो द्बेषाभिनिवेशः । इत्याश्वमेधिक- पर्व्व ॥ अपि च । “काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥” इति श्रीभगवद्गीतायाम् । २ अध्यायः ॥ अपि च । “सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥” “रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय ! कर्म्मसङ्गेन देहिनम् ॥” “सत्त्वं सुखे सञ्जयति रजः कर्म्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥” “लोभः प्रवृत्तिरारम्भः कर्म्मणामसमः स्पृहा । रजस्येतानि जायन्ते विवृद्ध भरतर्षभ ! ॥” “कर्म्मणः सुकृतस्याहुः सात्त्विकं निर्म्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ ऊर्द्ध्वं गच्छन्ति सत्त्वस्था मघ्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥” इति श्रीभगवद्गीतायाम् । १४ अध्यायः ॥ “सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः । कालसञ्चोदितास्तेऽपि परिवर्त्तन्त आत्मनि ॥ प्रभूतञ्च यदा सत्त्वं मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्याद्दाने तपसि यद्रतिः ॥ यदा कर्म्मसु कार्य्येषु शक्तिर्यशसि देहिनाम् । तदा त्रेता रजोवृद्धिरिति जानीहि शौनक ॥ यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः । कर्म्मणाञ्चापि काम्यानां द्बापरं तद्रजस्तमः ॥ यदा सदानृतं तन्द्री निद्रा हिंसादिसाधनम् । शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥” इति गारुडे २२७ अध्यायः ॥ परागः । इति मेदिनी । से, ३२ ॥ (यथा, भागवते । ४ । २४ । २२ । “पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥”)
रेणुः । अस्य पर्य्यायः धूलिशब्दे द्रष्टव्यः ॥ (यथा, माघे । २ । ४६ । “पादाहतं यदुत्थाय मूर्द्धानमधिरोहति । स्वस्थादेवापमानेऽपि देहिनस्तद्बसं रजः ॥”)
निषिद्धानिषिद्धरजो यथा, —
“आयुष्कामो न सेवेत तथा सम्मार्ज्जनीरजः । तथाश्वरथधान्यानां गवाञ्चैव रजः शुभम् ॥ अशुभञ्च विजानीयात् खरोष्ट्राजाव्रिकेषु च । गवां रजो धान्यरजः पुत्त्रस्याङ्गभवं रजः ॥ एतद्रजो महाशस्तं महापातकनाशनम् । अजारजः खररजो यत्तु सम्मार्ज्जनीरजः ॥ एतद्रजो महापापं महाकिल्विषकारणम् ॥” इति गारुडे ११४ अध्यायः ॥ (रात्रिः । इति निघण्टुः । १ । ७ ॥ उदकम् । यथा, ऋग्वेदे । १ । ५६ । ५ । “वियत्तिरोधरुणमच्युतं रजोतिष्ठिपो दिव आतासु बर्हणा ।” ‘रज उदकम् ।’ इति तद्भाष्ये सायणः ॥ भुवनम् । यथा, तत्रैव । १० । ८२ । ४ । “असूर्त्ते सूर्त्ते रजसि निषत्ते ये भूतानि सम- कृण्वन्निमानि ।” “रजसि लोके ।” इति तद्भाष्ये सायणः ॥ ज्योतिः । यथा, तत्रैव । १० । ३२ । २ । “वीन्द्र यासि दिव्यानि रोचना विपार्थिवानि रजसा पुरुष्टुत ।” “रजसा आत्मीयेन ज्योतिषा । विद्युल्लक्षणेन यद्वा रजःशब्दाच्छस आकारः पार्थिवान् लोकान् ।” इति तद्भाष्ये सायणः ॥)