वाचस्पत्यम्
रजस्वल || त्रि० रजोऽस्त्यस्य बलच् । १ रजोयुक्ते २ महिषे पुंस्त्री० मेदि० स्त्रियां ङीष् । आर्त्तववत्यां स्त्रियां स्त्री टाप् अमरः ।
शब्दकल्पद्रुमः
रजस्वलः || पुं, (रजोऽत्रास्तीति । रजस् + “रजः- कृष्यासुतिपरिषदो वलच् ।” ५ । २ । ११२ । इति वलच् ।)
महिषः । इति मेदिनी । ले, १६३ ॥ (अस्य पर्य्यायो यथा, —
“महिषो घोटकारिः स्यात् कासरश्च रजस्वलः । पीनस्कः कृष्णकायोऽथ लुलापो यमवाहनः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे द्बितीये भागे ॥ त्रि, रजोयुक्तः । यथा, भागवते । ७ । १३ । १२ । “तं शयानं धरोपस्थे कावेर्य्यां सह्यसानुनि । रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ॥” रजोगुणयुक्तः । स्पृहयालुः । यथा, मनुः । ६ । ७७ । “जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥”)