वाचस्पत्यम्
रज्जु || स्त्री सृज—उ नि० । १ बन्धनसाधने दामनि अमरः (दडि) २ वेण्याञ्च मेदि० ।
शब्दकल्पद्रुमः
रज्जुः || स्त्री (सृज्यते रच्यते इति । सृज् + “सृजे- रसुश्च ।” उणा० १ । १६ । इति उः । असुगागमश्च । धातुसकारलोपश्च । आगम- सकारस्य जश्त्वम् । दकारः । तस्यापि चुत्वम् । जकारः । इत्युज्ज्वलः । अप्राणिजातेश्चार- ज्ज्वादीनामिति कथनात् न ऊङ् ।)
बन्धन- साधनवस्तु । दडी इति भाषा ॥ तत्- पर्य्यायः । शुंल्लम् २ वराटकः ३ वटी ४ गुणः ५ इत्यमरः । २ । १० । २७ ॥ शुल्ला ६ । इति भरतधृतरत्नकोषः ॥ शुल्वम् ७ शुल्वः ८ शुल्वा ९ शुल्वी १० सुष्मम् ११ वराटः १२ वटाकरः १३ वटीगुणः १४ । इति टीकान्तरम् ॥ (तस्या अपहरणे दोषो यथा, मनौ । ११ । १६९ । “कार्पासकीटजीर्णानां द्बिशफैकशफस्य च । पक्षिगन्धौषधीनाञ्च रज्ज्वाश्चैव त्र्यहं पयः ॥”)
वेणी । इति मेदिनी । जे, १४ ॥ (प्रत्यङ्ग- विशेषः । यथा, सुश्रुते शारीरस्थाने ५ अध्याये । “रज्जवः सेवन्यः सङ्घाताः ॥”)