वाचस्पत्यम्
रञ्जक || न० रञ्जयति रन्ज—णिच्—ल्युल् । १ हिङ्गुले राजनि० २ प्रीतिकारके त्रि० । ३ काम्पिल्लवृक्षे पु० (डहरकरमचा) राजनि० ।
शब्दकल्पद्रुमः
रञ्जकं || क्ली (रञ्जयतीति । रन्ज् + णिच् + ण्वुल् ।)
हिङ्गुलम् । इति राजनिर्घण्टः ॥ (गुणादयोऽस्य हिङ्गुलशब्दे विज्ञेयाः ॥)
शब्दकल्पद्रुमः
रञ्जकः || पुं, (रञ्जयतीति । रन्ज् + णिच् + ण्वुल् ।)
कम्विल्लकः । इति राजनिर्घण्टः ॥ प्रीतिजनकः । वस्त्रादिरागकर्त्ता च ॥ (अस्य गृहे भोजनं निषिद्धं यथा, मनौ । ४ । २१६ । “श्ववतां शौण्डिकानाञ्च चेलनिर्णेजकस्य च । रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥” नाद्यादिति शेषः ॥ पित्तान्तर्गतोऽग्निविशेषः । यथा, —
“यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति संज्ञा सरसस्य रागकृदुक्तः ।” इति सुश्रुते सूत्रस्थाने २१ अध्यायः ॥)