संस्कृत-शब्दकोशः

रञ्जक रञ्जनक

रञ्जन

वाचस्पत्यम्

रञ्जन ||‍ न० रज्यतेऽनेन रन्ज—करणे ल्युट् । १ रक्तचन्दने २ हिङ्गुले ३ मुञ्जतृणे राजनि० ४ मञ्चिष्ठायां ५ नील्यां ६ गुण्डरोचनिकायां (कमलागुडि) स्त्री मेदि० ङीप् । ६ शेफालिकायां शब्दच० । ७ हरिद्रायां ८ पर्पट्याञ्च स्त्री राजनि० ङीप् । भावे ल्युट् । ९ रागे । णिच् कर्त्तरिल्यु । १० रागजनके त्रि० । संज्ञायां कन् । ११ कट फले पु० राजनि०


शब्दकल्पद्रुमः

रञ्जनं || क्ली (रज्यतेऽनेनेति । रन्ज् + करणे ल्युट् ।)
रक्तचन्दनम् । इति मेदिनी । ने, ११५ ॥ (अस्य पर्य्यायो यथा, —
“पत्तङ्गं रक्तसारञ्च सुरङ्गं रञ्जनन्तथा । पट्टरञ्जनमाख्यातं पत्तूरञ्च कुचन्दनम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
हिङ्गुलम् । इति राजनिर्घण्टः ॥ (रन्ज् + णिच् । भावे ल्युट् । प्रीतिजननम् । यथा, रघौ । ४ । १२ । “तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥”)


शब्दकल्पद्रुमः

रञ्जनः || पुं, (रञ्जयतीति । रन्ज् + णिच् + ल्युः ।)
रागजनकः । इति मेदिनी । ने, ११५ ॥ मुञ्ज तृणम् । इति राजनिर्घण्टः ॥



Correction: