संस्कृत-शब्दकोशः

रञ्जनद्रु रट

रञ्जनी

शब्दकल्पद्रुमः

रञ्जनी || स्त्री (रञ्जन + ङीष् ।)
शुण्डारोचनिका । नीली । (अस्याः पर्य्यायो यथा, —
“नीली तु नीलिनी तूली कालदोला च नीलिका । रञ्जनी श्रीफली तुच्छा ग्रामीणा मधुपर्णिका ॥ क्लीतका कालकेशी च नीलपुष्पा च सा स्मृता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
मञ्जिष्ठा । इति मेदिनी । ने, ११५ ॥ शेफा- लिका । इति शब्दचन्द्रिका ॥ हरिद्रा । (अस्याः पर्य्यायो यथा, —
“हरिद्रा पीतिका गौरी काञ्चनी रजनी निशा । मेहघ्नी रञ्जनी पीता वर्णिनी रात्रिनामिका ॥” इति वैद्यकरत्नमालायाम् ॥)
पर्प्पटी । इति राजनिर्घण्टः ॥



Correction: