वाचस्पत्यम्
रण || गतौ भ्वा० पर० सक० सेट् । रणति अराणीत् अरणीत् रेणतुः । घटादि० । रणयति ।
वाचस्पत्यम्
रण || पुंन० अर्द्धर्च्चा० रण० “वशिरण्योः” वार्त्ति० अप् । १ युद्धे अमरः । भावे अप् । २ शब्दे ३ कणे पु० मेदि० ४ गतौ च पु० शब्दर० ।
वाचस्पत्यम्
रण || रवे भ्वा० पर० अक० सेट् । रणति अराणीत् अरणीत् रेणतुः ।
शब्दकल्पद्रुमः
रणं || क्ली पुं, (रणन्ति शब्दायन्तेऽत्रेति । रण् + “ग्रहेति ।” ३ । ३ । ५८ । इत्यत्र । “वशिरण्यो- रुपसंख्यानम् ।” इति काशिकोक्त्या अप् ।)
युद्धम् । इत्यमरः । २ । ८ । १०४ ॥ (यथा, मनौ । ७ । ९० । “न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥” रमणम् । यथा, ऋग्वेदे । ८ । १७ । १२ । “शाचिगो शाचि पूजनायं रणाय ते सुतः ॥” “रणाय रमणाय ।” इति तद्भाष्ये सायणः ॥ रमणीये, त्रि । यथा, तत्रैव । १ । ११६ । २१ । “एकस्यावन्त्यो रावतं रणाय वशमश्विनासनये सहस्रा ।” “रणाय रमणीयाय ।” इति तद्बाष्ये सायणः ॥)
शब्दकल्पद्रुमः
रणः || पुं, (रण् + अप् ।)
शब्दः । कणः । इति मेदिनी ॥ गतिः । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
रण || म गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
म, रणयति । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
रण || रुति । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।)
रणति । रुति शब्दे । इति दुर्गादासः ॥