शब्दकल्पद्रुमः
रण्डा || स्त्री (रमन्तेऽत्रेति । रम् + “ञमन्तात् डः ।” उणा० १ । ११३ । इति डः । टाप् ।)
मूषिकपर्णी । इत्यमरः । २ । ४ । ८८ ॥ (यथा, “हिङ्गुलात् सम्भवं सूतं पालिधारसमर्द्दितम् । रण्डाशोधितगन्धञ्च तेनैव कज्जलीकृतम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे बृहत्सोमनाथरसे ॥)
विधवा । राँड् इति भाषा ॥ यथा । तिष्ठते रण्डा विकर्म्मस्थेभ्यः स्वहृदयं व्यनक्तीत्यर्थः । इति संक्षिप्तसारे तिङन्तपादः ॥