वाचस्पत्यम्
रण्डाश्रमिन् || पु० रण्डः विफलः प्रजाहीनत्वात् आश्रमः अस्त्यस्य इनि । “चत्वारिंशद्वत्सराणां साष्टानाञ्च परे यदि । स्त्रिया वियुज्यते कश्चित् स तु रण्डाश्रमी मतः” इत्युक्तवयसि स्त्रीवियुक्ते पुरुषे ।
शब्दकल्पद्रुमः
रण्डाश्रमी || [न्] पुं, (रण्डो विफल आश्रमः सोऽस्त्यस्य । रण्डाश्रम + इनिः ।)
अष्टचत्वा- रिंशद्वत्सरोपरिभार्य्याविहीनः । यथा, भवि- ष्यपूराणम् । “चत्वारिंशद्बत्सराणां साष्टानाञ्च परे यदि । स्त्रिया वियुज्यते कश्चित् स तु रण्डाश्रमी मतः ॥” इत्युद्बाहतत्त्वम् ॥