शब्दकल्पद्रुमः
रतिनागः || पुं, षोडशरतिबन्धान्तर्गतपञ्चदशबन्धः । तस्य लक्षणं यथा, — “पीडयेदूरुयुग्मेन कामुकं कामिनी यदि । रतिनागः समाख्यातः कामिनीनां मनोरमः ॥ इति रतिमञ्जरी ॥