वाचस्पत्यम्
रतिपति || पु० ६ त० । कन्दर्पे अमरः । रतिकान्तादयोऽप्यत्र ।
शब्दकल्पद्रुमः
रतिपतिः || पुं, (रत्याः पतिः ।)
कामदेवः । इत्य- मरः ॥ (यथा, महागणपतिस्तोत्रे । १० । “पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्- पले । विभ्रत्या सममैक्षवं धनुरिषून् पौष्पान् वहन् पञ्च च ॥”)
देशविशेषस्थस्त्रीणां स्थानविशेषे तस्याविर्भावो यथा, —
“वाचि श्रीमाथुरीणां जनकजनपदस्थायिनीनां कटाक्षे दन्ते गौडाङ्गनानां सुललितजघने चोत्कल- प्रेयसीनाम् । तैलङ्गीनां नितम्बे सजलघनरुचौ केरलीकेश- पाशे कार्णाटीनां कटौ च स्फुरति रतिपतिर्गुर्जरीणां स्तनेषु ॥” इति साहित्यदर्पणम् ॥