संस्कृत-शब्दकोशः

रतिमदा रतिमित्र

रतिमन्दिर

वाचस्पत्यम्

रतिमन्दिर ||‍ न० ६ त० । १ रतिगृहे २ स्त्रीणामसाधारणचिह्ने च जटा० ।


शब्दकल्पद्रुमः

रतिमन्दिरं || क्ली (रतेर्मन्दिरमिव ।)
योनिः । इति जटाधरः ॥ मैथुनगृहम् । यथा, —
“सञ्चारो रतिमन्दिरावधि सखीकर्णाबधि व्याहृतं चेतः कान्तसमीहितावधि पदन्यासावधि प्रेक्षितम् । हास्यं चाधरपल्लवावधि महामानोऽपि मौनावधिः सर्व्वं सावधि नावधिः कुलभुवां प्रेम्णः परं केवलम् ॥” इति रसमञ्जरी ॥



Correction: