संस्कृत-शब्दकोशः

रतोद्वह रत्नकन्दल

रत्न

वाचस्पत्यम्

रत्न ||‍ न० रमतेऽत्र रम—न तान्तादेशः । १ माणिक्यादिप्रस्तरे अमरः । २ स्वस्वजातिषु श्रेष्ठे मेदि० ३ माणिक्ये ४ ही- रके च राजनि० । तद्भेदादिकं वृ० स० ८० अ० उक्तं यथा “रत्येन शुभेन शुभं भवति नृपाणामनिष्टमशुभेन । यस्मादतः परीक्ष्यं दैवं रत्नाश्रितं तज्ज्ञैः । द्विपहय- बनितादीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति । इह तू- पुलरत्नानामधिकारो वज्रपूर्वाणाम । रत्नानि बलाद्दै- त्याद् दधीचितोऽन्ये वदन्ति जातानि । केचिद्भुवः स्वभावाद् वैचित्र्यं प्राहुरुपलानाम् । वज्रेन्द्रनील- मरकतकर्केतनपद्मरागरुधिराख्याः । वैदूर्य्यपुलकवि- मलकरराजमणिस्फटिकशशिकान्ताः । सौगन्धिकगोमेद- कशङ्खमहानीलपुष्परागाख्याः । ब्रह्ममणिज्योतीरसशस्य- कमुक्ता प्रवालानि” ।


शब्दकल्पद्रुमः

रत्नं || क्ली (रमयति हर्षयतीति । रम् + णिच् + “रमेस्त च ।” उणा० ३ । १४ । इति नः तकारश्चान्तादेशः ।)
अश्मजातिः । मुक्तादि । तत्पर्य्यायः । मणिः २ । इत्यमरः ॥ (यथा, कुमारे । ५ । ४५ । “न रत्नमन्विष्यति मृग्यते हि तत् ॥”)
स्वजातिश्रेष्ठः । इति मेदिनी ॥ (यथा, मार्कण्डेये । ८५ । ४५ । “स्त्रीरत्नमतिचार्व्वङ्गी द्योतयन्ती दिशस्त्विषा ॥”)
माणिक्यम् । वज्रम् । इति राजनिर्घण्टः ॥ * ॥
अथ रत्नोत्पत्तिकारणम् । यथा, — सूत उवाच । “वच्मि परीक्षां रत्नानां वलो नामासुरोऽभवत् । इन्द्राद्या निर्ज्जितास्तेन निर्जेतुं तैर्न शक्यते ॥ वरव्याजेन पशुतां याचितः स सुरैर्मखे । बलो ददौ स्वपशुतामतिसत्त्वो मखे हतः ॥ पशुवत्स विशेत् स्तम्भे स्ववाक्याशनियन्त्रितः । बलो लोकोपकाराय देवानां हितकाल्यया ॥ तस्य सत्त्वविशुद्धस्य सुविशुद्धेन कर्म्मणा । कायस्यावयवाः सर्व्वे रत्नबीजत्वमाययुः ॥ देवानामथ यक्षाणां सिद्धानां पवनाशिनाम् । रत्नबीजमयं ग्राहः सुमहानभवत्तदा ॥” * ॥
अथ तस्याकरस्थानानि यथा, —
“तेषान्तु पततां वेगाद्बिमानेन विहायसा । यद्यत् पपात रत्नानां बीजं क्वचन किञ्चन ॥ महोदधौ सरिति वा पर्व्वते काननेऽपि वा । तत्तदाकरतां यातं स्थानमाधेयगौरवात् ॥ तेषु रक्षोविषव्यालव्याधिघ्नान्यघहानि च । प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥ वज्रमुक्ताश्ममणयः सपद्मरागाः समरकताः प्रोक्ताः । अपि चेन्द्रनीलमणिवरवैदूर्य्याश्च पुष्परागाश्च । कर्केतनं सपुलकं रुधिराक्षसमन्वितं तथा स्फटिकम् । विद्रुममणिश्च यत्नादुद्दिष्टं संग्रहे तज्ज्ञैः ॥ * ॥
आकारवर्णौ प्रथमं गुणदोषौ तत्फलं परीक्षा च । मूल्यञ्च रत्नकुशलैर्व्विज्ञेयं सर्व्वशास्त्राणाम् ॥ कुलग्नेषूपजायन्ते यानि चोपहतेऽहनि । दोषैस्तानुपयुज्यन्ते हीयन्ते गुणसम्पदा ॥ परीक्षापरिशुद्धानां रत्नानां पृथिवीभुजा । धारणं संग्रहो वापि कार्य्यः श्रियमभीप्सता ॥ शास्त्रज्ञाः कुशलाश्चापि रत्नभाजः परीक्षकाः । त एव मूल्यमात्राया वेत्तारः परिकीर्त्तिताः ॥” इति गारुडे ६८ अध्यायः ॥ विशेषरत्नपरीक्षा तत्तच्छब्दे द्रष्टव्या ॥ * ॥
चतु- र्द्दश महारत्नानि यथा । रुशंङ्कोश्चित्ररथः तत्तनयः शशबिन्दुश्चतुर्द्दशमहारत्नश्चक्रवर्त्त्य- भवत् । चतुर्द्दश महान्ति रत्नानि यस्य सः । रत्नानि तु स्वजातिश्रेष्ठानि धर्म्मसंहितोक्तानि । “चक्रं रथो मणिः खड्गश्चर्म्म रत्नञ्च पञ्चमम् । केतुर्निधिश्च सप्तैवमप्राणानि प्रचक्ष्यते ॥ भार्य्या पुरोहितश्चैव सेनानी रथकृच्च यः । पत्त्यश्वौ कलभश्चेति प्राणिनः सप्त कीर्त्तिताः ॥ चतुर्द्दशैतानि रत्नानि लर्व्वेषां चक्रवर्त्तिना- मिति । इति विष्णुपुराणे ४ अंशे १२ अध्यायः तट्टीका च ॥ (अथ रत्नस्य निरुक्तिः । “धनार्थिनो जनाः सर्व्वे रमन्तेऽस्मिन्नतीव यत् । ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥” अथ रत्नस्य नामानि स्वरूपनिरूपणञ्च । यथा, —
“रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते । तत्तु पांषाणभेदोऽस्ति मुक्तादि च तदुच्यते ॥” अथ रत्नानां निरूपणम् । “रत्नं गारुत्मतं पुष्परागो माणिक्यमेव च । इन्द्रनीलश्च गोमेदस्तथा वैदूर्य्यमित्यपि ॥ मौक्तिक विद्रुमश्चेति रत्नान्युक्तानि वै नव । रत्नं हीरा । गारुत्मतं पान्ना । माणिक्यं पद्म- रागः । इन्द्रनीलः लीला । विष्णुधर्म्मोत्तरेऽपि नवरत्ननिरूपणम् । मुक्ताफलं हीरकञ्च वैदूर्य्यं पद्मरागकम् । पुष्परागञ्च गोमेदं नीलं गारुत्मतन्तथा । प्रवालयुक्तान्येतानि महारत्नानि वै नव ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: