संस्कृत-शब्दकोशः

रत्यङ्ग रथक

रथ

वाचस्पत्यम्

रथ ||‍ पु० रम्यतेऽनेन अत्र वा रम—क्थन् । १ स्वनामख्याते यानभेदे अमरः । २ देहे च “आत्मानं रथिनं बिद्धि शरीरं रथमेव च” इति गीता । अत्र रूपकमित्यन्ये ३ पादे ४ वेतसवृक्षे विश्वः ५ तिनिसवृक्षे राजनि० । वानरूपरथभेदादिकं हेमच० उक्तं यथा “युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः । संकी- डार्थः पुष्यरथो देवार्थस्तु, मरुद्रथः । योग्योरथो वैन- यिकोऽध्वरथः परिघातिकः । कर्णीरथः प्रवहणं डयनं रथगर्भकः । अनस्तु शकटोऽथ स्याद्गन्त्री कम्बलि वाह्यकम् । अथ काम्बलवास्त्राद्यास्तैस्तैः परिवृते रथे । स पाण्डुकम्बली यः स्यात् संवीतः पाण्डु- कम्बलैः । स तु द्वैपो वैयाघ्रश्च वृतो यो द्वीपिचर्मणा । ज्योतिर्विदाभरणे तत्करणर्क्षादि उक्तं यथा “लोल- मैत्रलघुजिष्णुकभेषु स्यन्दनाखिलविधानमथाहुः । सेन- सद्द्युषु बलाम्बुतपःस्थैः साधुराशिमति साधुभिरङ्गे । रथचक्रभागमाह “उष्णवृष्णिकरकर्णयुगाक्षाद्देयमृक्षवलयं वलयस्य । सव्यभागनिचितभ्रममग्रादादिमध्यमनसो नव- भागम् । अग्रभे भवति सङ्कलिरन्तः कूवरोडुनि जयोऽथ रथाङ्गे । सन्धिभेऽर्थहृतिरन्तरसन्धौ भीति- रिष्टमनसो ननु गर्भे । अथ रथकृत्यमुहूर्त्त “पुष्ये पुनर्वसुज्येष्ठानुराधारेवतीद्वये । श्रवणादित्रिभे हस्त- त्रितये रोहिणीमृगे । सार्के सौम्यदिने सौम्यबिलग्ने रथकर्म सत्” ।


शब्दकल्पद्रुमः

रथः || पुं, (रम्यतेऽनेनात्र वा । रम् + “हनि कुषिनीरमिकाशिभ्यः क्थन् ।” उणा० २ । २ । इति क्थन् । अनुनासिकलोपश्च ।)
कायः । (यथा, गीतायाम् । “आत्मानं रथिनं विद्धि शरीरं रथमेव च ॥”)
चरणः । वेतसवृक्षः । इति विश्वः ॥ (अस्य पर्य्यायो यथा, —
“वेतसो नम्रकः प्रोक्तो वाणीरो वञ्जुलस्तथा । अभ्रपुष्पश्च विदुलो रथः शीतश्च कीर्त्तितः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
तिनिशवृक्षः । इति राजनिर्घण्टः ॥ चक्र- विशिष्टयुद्धार्थयानम् । तत्पर्य्यायः । शताङ्गः २ स्यन्दनः ३ । इत्यमरः । २ । ८ । ५१ ॥ स्यन्दन- मात्रम् । इत्यजयः ॥ (यथा, मनुः । ८ । २९५ । “स चेत् तु पथि संरुद्धः पशुभिर्वा रथेन वा । प्रमापयेत् प्राणभृतस्तत्र दण्ड्योऽविचारितः ॥”)
तद्द्वारा भ्रमणगुणाः । “हस्त्यश्वरथदोलाद्यैर्भ्रमणं वातकोपनम् । स्थिरीकरणमङ्गानां बल्यं वह्निविवर्द्धनम् ॥” इति राजवल्लभः ॥ * ॥
रथविशेषाणां नामानि यथा, —
“युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः । संक्रीडार्थः पुष्यरथो देवार्थस्तु मरुद्रथः ॥ योग्यो रथो वैनायिकोऽध्वरथः परिघातिकः । कर्णीरथः प्रवहणं डयनं रथगर्भकः ॥ अनस्तु शकटोऽथ स्याद्गन्त्री कम्बलिवाह्यकम् । अथ काम्बलवस्त्राद्यास्तैस्तैः परिवृते रथे ॥ सपाण्डुकम्बली यः स्यात् संवीतः पाण्डुकम्बलैः । सत्तु द्वैपो वैयाघ्रश्च यो वृतो द्बीपिचर्म्मणा ॥” इति हेमचन्द्रः ॥ गोलोकस्य रथो यथा, —
“प्रदत्तं विप्रपत्नीभिर्म्मिष्टमन्नं सुधोपमम् । बालकान् भोजयित्वा तु स्वयञ्च बुभुजे विभुः ॥ एतस्मिन्नन्तरे तत्र शातकुम्भरथं वरम् । ददृशुर्विप्रपत्न्यश्च पतन्तं गगनादहो ॥ रत्नदर्पणसंयुक्तं रत्नसारपरिच्छदम् । रत्नस्तम्भैर्न्निबद्धञ्च सद्रत्नकलसोज्ज्वलम् ॥ श्वेतचामरसंयुक्तं वह्निशुद्धांशुकान्वितम् । पारिजातप्रसूनानां मालाजालविराजितम् ॥ शतचक्रसमायुक्तं मनोयायि मनोहरम् । वेष्टितं पार्षदैर्द्दिव्यैर्व्वनमालाविभूषितैः ॥ पीतवस्त्रपरीधानै रत्नालङ्कारभूषितैः । नवयौवनसम्पन्नैः श्यामलैः सुमनोहरैः ॥ हिभुत्रैर्मुरलीहस्तैर्गोपवेशधरैर्व्वरैः । शिखिपुच्छगुञ्जमालाबद्धवङ्किमचूडकैः ॥ अवरुह्य रथात्तर्णं ते प्रणम्य हरेः पदम् । रथमारोहणं कर्त्तमूचुर्ब्राह्मणकाभिनीः ॥ विप्रभार्य्या हरिं नत्वा जर्ग्मुर्गोलोकमीप्सितम् । बभूवुर्गोपिकाः सद्यस्त्यक्त्वा मानुषविग्रहान् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १८ अध्यायः ॥ देव्या रथयात्रा यथा, — ब्रह्मोवाच । “भूयस्त संप्रवक्ष्यामि देव्याराधनमुत्तमम् । यत् कृत्वा सर्व्वकामाणां व्याप्तिस्तृप्तिर्भविष्यति ॥ दन्तिदन्तमयैर्द्दण्डैर्हेमबद्धैः सुशोभनैः । विचित्रपद्मरागाद्यैर्म्मणिभिरुपशोभितैः ॥ रथन्तैः कारयेद्देव्या सप्तभौमं मनोरमम् । दुकूलवस्त्रसंछन्नमर्द्धचन्द्रोपशोभितम् ॥ घण्टाकिङ्किणिशङ्खाढ्यं चामरैः कटकान्वितम् । पताकाध्वजशोभाढ्यं दर्पणैरुपशोभितम् ॥ तं रथं पूजयेच्छक्र जातीकुसुममल्लिकैः । पारिजातकपुष्पैश्च यक्षकर्द्दमचन्दनैः ॥ सुगन्धधूपितैः कृत्वा देवीं तत्र निवेशयेत् । प्रतिमां शोभनां वत्स ! महासुरक्षयङ्करीम् ॥ पूजयेद्रथविन्यस्तां सर्व्वमङ्गलमङ्गलाम् । दुर्गा कात्यायनी देवी वरदा विन्ध्यवासिनी ॥ निशुम्भशुम्भमथनी महिषासुर घातिनी । प्रसीदतु सदा मेऽस्तु यच्च नो वाञ्छितं हृदि ॥ अनेन वलिपूर्ब्बेण नमस्कारयुतेन च । पूजयित्वा ततो नेया समस्ताप्सरगीतकैः ॥ पञ्चमी सप्तमी पूर्णा नवम्येकादशीषु च । तृतीयाशिवविघ्नेशदिवसेषूत्सवेषु च ॥ महानदीनदसंज्ञपर्व्वतस्रवणेषु च । तत्र मण्डपविन्यासं महदाविष्टनिर्म्मितम् ॥ शैलं वा मृण्मयं वापि कृत्वा वास्तुविचारितम् । सर्व्वलक्षणसंपूर्णं सर्व्वशोभासमन्वितम् ॥ पूर्व्वे च कारयेच्छक्र पश्चाद्यात्रां प्रचक्रिरे । महाजनपदोपेतां महास्त्रीभिः ससङ्कुलाम् ॥ सर्व्वान्नपाननैवेद्यैः समस्तैरपि पूजयेत् । दद्याद्वलिं शक्र सर्व्वं सर्व्वदिक्षु समन्ततः ॥ भूयो वेतालसंघस्य मन्त्रेणानेन सुव्रत ! । रक्ष मां निजभूतेभ्यो वलिं गृह्ण सदा प्रियम् ॥ मातर्मातर्वरे देवि ! सर्व्वकामार्थसाधिनि । अनेन वलिदानेन सर्व्वकामान् प्रयच्छ मे ॥ एवं दत्त्वा वलिं शक्र तथा देव्यावतारयेत् । विन्यसेद्भद्रपीठे तु मण्डलैरुपशोभिताम् ॥ तत्रस्थां पूजयेद्देवीं हैमरूपैश्च ताम्रजैः । कलसैस्तु सहस्रेण गन्धोदकसुपूरितैः ॥ समस्तफलसम्पूर्णैर्यज्ञियैरथ पल्लवैः । स्नापयेदेकमेकेन रत्नगर्भैर्नवैर्दृढैः ॥ वेदमङ्गलशब्देन शङ्खवादित्रनिस्वनैः । वेणुवीणामृदङ्गैश्च घण्टाकिङ्किणिराविणैः ॥ स्नापयित्वा ततो देवीं निर्मञ्छेच्छनकैः शुभैः । गोमयादिकृतैः पद्मैर्दीपवर्त्त्या विशोधितैः ॥ स्वस्तिकैर्नन्दिकावर्त्तैः शङ्खैर्नीलोत्पलोत्पलैः । यवशाल्यङ्कुरोद्भिन्नैर्यवाचारैर्निमज्जयेत् ॥ प्रत्येकञ्च दहेद्धूपं प्रत्येकं कलसैः स्नपेत् । तथा कर्पूरक्षोदेन चन्दनैः कुङ्कुमेन च ॥ गोरोचनासमेतेन देवीमालिप्य पूजयेत् ॥ हेमजैर्जातिजैर्माल्यै रत्नमाल्यैरनेकधा । वासोभिः सुमनैश्चित्रैः पुनर्धूपं समुत्क्षिपेत् ॥ भक्षयेत तथा कन्या द्बिजातीनथ दुःखितान् । भक्ष्यभोज्यान्नपानेन तत्र सर्व्वांश्च प्रीणयेत् ॥ भोजयित्वा क्षमायेत देवि मे प्रीयतामिति । रथे कृत्वा तथा देवीं पुनरेव गृहं नयेत् ॥ महता जनसंघेन समस्तविभवान्वितैः । शान्तरेणुपथं सर्व्वं पुष्पदूर्व्वाक्षतैर्ज्जलैः ॥ प्रक्षिप्यमाणैः कन्याभिः स्त्रीभिर्भङ्गलवादिभिः । सलिलेन यथा पांशुं कृत्वा पङ्कं प्रचक्रिरे ॥ पुरशोभां पथे शोभां द्वारशोभां गृहे गृहे । कारयीत तथा शक्र सर्व्ववाधां निवारयेत् ॥ अच्छेद्यास्तरवस्तस्मिन् प्राणिहिंसां विवर्ज्जयेत् । वन्धनस्था विमोक्तव्या बध्याः क्रोधादिशत्रवः ॥ अकालकौमुदीं शक्र रथयात्रान्तु कारयेत् । सर्व्वदा सर्व्वदेवैस्तु शङ्कराद्यैः प्रतिष्ठिता ॥ रथयात्रा तदा शक्र सुरैः स्वर्गे सदा कृता । तथा किन्नरगन्धर्व्वैर्भू पातालनिवासिभिः ॥ रथयात्राप्रभावेण मोदन्ते दिवि देवताः । आदित्यो रथयात्राकृद्रथेन नभसः क्रमेत् ॥ देव्यो दिव्यविमानस्था रथयात्राप्रभावतः । क्रीडन्ते विविधैर्भोगैः सर्व्वातङ्कविवर्जिताः ॥ तथा त्वमपि देवेन्द्र ! रथयात्राकरो भव । शिवायाः शिवदायास्तु परमेण समाधिना ॥ अगस्त्य उवाच । रथयात्राकृतं पुण्यं ब्रह्मणो वासवस्य तु । पूर्ब्बं यत् कथितं तात तत्ते सर्व्वं मयाखिलम् ॥ व्यापितं नात्र सन्देहो देवीमाहात्म्यमुत्तमम् । यः पठेत् शृणुयाद्बापि भक्तिमान् नृपसत्तम ॥ स सुखं यशः सौभाग्यं पुत्त्रप्राप्तिमथेप्सिताम् । लभते नात्र सन्देह इत्येवं ब्रह्मणोऽब्रवीत् ॥ स्वबलेन कृते राज्ये पुरा शक्रस्य कीर्त्तिता । धनदस्य पूरीप्राप्तिर्व्वरुणस्य च वायुना ॥ हृते स्थाने कृता तेन तथा श्रुत्वा च निरृतेः । भुञ्जते परया दृष्ट्या पुरीर्भोगवतीः शुभाः ॥” इति देवीपुराणे रथयात्राविधिमाहात्म्यम् ३९ अध्यायः ॥ * ॥
नवग्रहाणां रथा यथा, —
“योजनानां सहस्राणि भास्करस्य रथो नव । ईशादण्डस्तथैवास्माद्द्विगुणो द्विजसत्तमाः ॥ सार्द्धकोटिस्तथा सप्त नियुतान्यधिकानि तु । योजनानान्तु तस्याक्षं तत्र चक्रं प्रतिष्ठितम् ॥ त्रिनाभिमतिपञ्चारे षण्णेमिन्यक्षयात्मके । संवत्सरन्तु यत् कृत्स्नं कालचक्रं प्रतिष्ठितम् ॥ चत्वारिंसत्सहस्राणि द्बितीयोऽक्षो विवस्वतः । पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य द्धिजोत्तमाः ॥ अक्षप्रमाणमुभयोः प्रमाणं तत्परार्द्धयोः । भूयोऽक्षस्तद्युगार्द्धे च ध्रुवाधारं रथस्य वै ॥ द्बितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले । हयाश्च सप्त च्छन्दांसि तन्नामानि निबोधत ॥ गायत्त्री च बृहत्युष्णिक् जगती पंक्तिरेव च । अनुष्टुप् त्रिष्टुबित्युक्ताश्छन्दांसि हरयो रवेः ॥” १ ॥ इति कौर्म्मे ३८ अध्यायः ॥ “रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन निशाकरः । वीथ्याश्रयाणि चरति नक्षत्राणि रविर्यथा ॥ २ ॥ सोमपुत्त्रस्य चाष्टाभिर्वाजिभिर्वायुवेगिभिः । वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्व्वतः ॥ ३ ॥ शुक्रस्य भूमिजैरश्वैः स्यन्दनो दशभिर्वृतः ॥ ४ ॥ अष्टाभिश्चाथ भौमस्य रथो हैमः सुशोभनः । ५ । बृहस्पतेरथाष्टाश्वः स्यन्दनो हेमनिर्म्मितः ॥ ६ ॥ रथस्तमोमयो ह्यश्वो मन्दस्यायसनिर्म्मितः । ७ । स्वर्भानोर्भास्करारेश्च तथा षड्भिर्हयैर्वृतः ॥ ८ ॥ ९ ॥ एते महाग्रहाणां वै समाख्याता रथा नव । सर्व्वे ध्रुवे महाभागा निबद्बा वातरश्मिभिः ॥ ग्रहर्क्षताराधिष्ट्यानि ध्रुवे बद्धान्यशेषतः । भ्रमन्ति भ्रामयन्त्येनं सर्व्वाण्यनिलरश्मिभिः ॥” इति कौर्म्मे ४० अध्यायः ॥ * ॥
श्रीजगन्नाथदेवस्य रथः यात्राशब्दे द्रष्टव्यः ॥ * ॥
(त्रिपुरदहनार्थं महेश्वरादिष्टा देवा येन प्रकारेण तद्रथं निर्म्मितवन्तस्तदाह । मात्स्ये । १३३ । १३ — ७१ । “त्रिनेत्र एवमुक्तस्तु देवैः शक्रपुरोगमैः । उवाच देवान् देवेशो वरदो वृषबाहनः ॥ व्यपगच्छतु वो देवा महद्दानवजं भयम् । तदहं त्रिपुरं धक्ष्ये क्रियतां यद्ब्रवीमि तत् ॥ यदीच्छथ मया दग्धुं तत् पुरं सहदानवम् । रथमोपयिकं मह्यं सज्जयध्वं किलास्य ते ॥ दिग्वाससा तथोक्तास्ते सपितामहकाः सुराः । तथेत्युक्त्वा महादेवं चक्रुस्ते रथमुत्तमम् ॥ धरां कूवरकौ द्वौ तु रुद्रपार्शचरावुभौ । अधिष्ठानं शिरो मेरोरक्षो मन्दर एव च ॥ चक्रुश्चन्द्रञ्च सूर्य्यञ्च चक्रे काञ्चन-राजते । कृष्णपक्षं शुक्लपक्षं पक्षद्बयमपीश्वराः ॥ रथनेमिद्वयं चक्रुर्देवा ब्रह्मपुरःसराः । आदिद्बयं पक्षयन्त्रं यन्त्रमेताश्च देवताः ॥ कम्बलाश्वतराभ्याञ्च नागाभ्यां समवेष्टितम् । भार्गवश्चाङ्गिराश्चैव बुधोऽङ्गारक एव च ॥ शनैश्चरस्तथा चात्र सर्व्वे ते देवसत्तमाः । वरूथं गगनं चक्रुश्चारुरूपं रथस्य ते ॥ कृतं द्विजिह्वनयनं त्रिवेणुं शातकौम्भिकम् । मणिमुक्तेन्द्रनीलैश्च वृतं हृष्टमुखैः सुरैः ॥ गङ्गा सिन्धुः शतद्रुश्च चन्द्रभागा इरावती । वितस्ता च विपाशा च यमुना गण्डकी तथा ॥ सरस्वती देविका च तथा च शरयूरपि । एताः सरिद्वराः सर्व्वा वेणुसंज्ञाः कृता रथे ॥ धृतराष्ट्राश्च ये नागास्ते च वेश्यात्मकाः कृताः । वासुकेः कुलजा ये च ये च रैवतवंशजाः ॥ ते सर्पा दर्पसम्पूर्णाश्चापतूणेष्वनूनगाः । अवतस्थुः शरा भूत्वा नानाजातिशुभाननाः ॥ सुरसा सरमा कद्रूर्विनता शुचिरेव च । तृषा बुभुक्षा सर्वोग्रा मृत्युः सर्व्वशमस्तथा ॥ ब्रह्मवध्या च गोवध्या बालवध्या प्रजाभयाः । गदा भूत्वा शक्तयश्च तदा देवरथेऽभ्ययुः ॥ युगं कृतयुगञ्चात्र चातुर्होत्रप्रयोजकाः । चतुर्व्वर्णाः सलीलाश्च बभूबुः स्वर्णकुण्डलाः ॥ तंद्युगं युगसङ्काशं रथशीर्षे प्रतिष्ठितम् । धृतराष्ट्रेण नागेन बद्धं बलवता महत् ॥ ऋग्वेदः सामवेदश्च यजुर्व्वेदस्तथापरः । वेदाश्चत्वार एवैते चत्वारस्तुरगा भवन् ॥ अन्नदानपुरोगाणि यानि दानानि कानिचित् । तान्यासन् वाजिनां तेषां भूषणानि सहस्रशः ॥ पद्मद्वयं तक्षकश्च कर्कोटक-धनञ्जयौ । नागा बभूवुरेवैते हयानां बालबन्धनाः ॥ ओङ्कारप्रभवास्ता वा मन्त्रयज्ञक्रतुक्रियाः । उपद्रवाः प्रतीकाराः पशुबन्धेष्टयस्तथा ॥ यज्ञोपवाहान्येतानि तस्मिन् लोकरथे शुभे । मणि-मुक्ता-प्रबालैस्तु भूषितानि सहस्रशः ॥ प्रतोदोङ्कार एवासीत् तदग्रञ्च वषट्कृतम् । सिनीबाली कुहू राका तथा चानुमती शुभा ॥ योक्त्राण्यासं स्तुरङ्गाणामपसर्पणविग्रहाः ॥ कृष्णान्यथ च पीतानि श्वेतमाञ्जिष्ठकानि च । अवदाताः पताकास्तु बभूबुः पवनेरिताः ॥ ऋतुभिश्च कृतः षड्भिर्धनुः संवत्सरोऽभवत् । अजरा ज्याभवच्चापि साम्बिका धनुषो दृढा ॥ कालो हि भगवान् रुद्रस्तञ्च संवत्सरं विदुः । तस्मादुमा कालरात्रिर्धनुषो ज्याऽजराभवत् ॥ सगर्भं त्रिपुरं येन दग्धवान् स त्रिलोचनः । स इषुर्विष्णुसोमाग्नि-त्रिदैवतमयोऽभवत् ॥ आननं ह्यग्निरभवच्छल्यं सोमस्तमोनुदः । तेजसः समवायोऽथ चेषोस्तेजो रथाङ्गधृक् ॥ तस्मिंश्च वीर्य्यवृद्ध्यर्थं वासुकिर्नागपार्थिवः । तेजः संवसनार्थं वै मुमोचातिविषो विषम् ॥ कृत्वा देवा रथञ्चापि दिव्यं दिव्यप्रभावतः । लोकाधिपतिमभ्येत्य इदं वचनमब्रुवन् ॥ संस्कृतोऽयं रथोऽस्माभिस्तव दानवशत्रुजित् । इदमापत्परित्राणं देवान् सेन्द्रपुरोगमान् ॥ तं मेरुशिखराकारं त्रैलोक्यरथमुत्तमम् । प्रशस्य देवान् साध्विति रथं पश्यति शङ्करः ॥ मुहुर्दृष्ट्वा रथं साधु साध्वित्युक्त्वा मुहुर्म्मुहुः । उवाच सेन्द्रानमरानमराधिपतिः स्वयम् ॥ यादृशोऽयं रथः कॢप्तो युष्माभिर्मम सत्तमाः । ईदृशो रथसम्पत्त्या यन्ता शीघ्रं विधीयताम् ॥ इत्युक्ता देवदेवेन देवा विद्धा इवेषुभिः । अवापुर्महतीं चिन्तां कर्थ कार्य्यमिति ब्रुवन् ॥ महादेवस्य देवोऽन्यः को नाम सदृसो भवेत् । मुक्त्वा चक्रायुधं देवं सोपास्य इषुमाश्रितः ॥ घुरि युक्ता इवोक्षाणो घटन्त इव पर्व्वतैः । निश्वसन्तः सुराः सर्व्वे कथमेतदिति ब्रुवन् ॥ अहं सारथिरित्युक्त्वा जग्राहाश्वांस्ततोऽग्रजः ॥ ततो देवैः सगन्धर्व्वैः सिंहनादो महान् कृतः । प्रतोदहस्तं सम्प्रेक्ष्य ब्रह्माणं सूततां गतम् ॥ भगवानपि विश्वेशो रथस्थे वै पितामहे । सदृशः सूत इत्युक्त्वा चारुरोह रथं हरः ॥ आरोहति रथं देवे ह्यश्वा हरभरातुराः । जानुभिः पतिता भूमौ रजोग्रासश्च ग्रासितः ॥ देवो दृष्ट्वाथ वेदांस्तानभीरुग्रहयान् भयात् । उज्जहार पितॄनार्त्तान् सुपुत्त्र इव दुःखितान् ॥ ततः सिंहरवो भूयो बभूव रथभैरवः । जयशब्दश्च देवानां सम्बभूवार्णवोपमः ॥ तदोङ्कारमयं गृह्य प्रतोदं वरदः प्रभुः । स्वयम्भुः प्रययौ वाहाननुमन्त्र्य यथाजवम् ॥ ग्रसमाना इवाकाशं मुष्णन्त इव मेदिनीम् । मुखेभ्यः ससृजुः श्वासानुच्छ्रसन्त इवोरगाः ॥ स्वयम्भुवा चोद्यमानाश्चोदितेन कपर्द्दिना । व्रजन्ति तेऽश्वा जवनाः क्षयकाल इवानिलाः ॥ ध्वजोच्छ्रयविनिर्म्माणे ध्वजयष्टिमनुत्तमाम् । आक्रम्य नन्दी वृषभं तस्थौ तस्मिञ्छिवेच्छया ॥ भार्गवाङ्गिरसौ देवौ दण्डहस्तौ रविप्रभौ । रथचक्रे तु रक्षेते रुद्रस्य प्रियकाङ्क्षिणौ ॥ शेषश्च भगवान् नागः अनन्तोऽन्तकरोऽरि- णाम् । शरहस्तो रथं पाति शयनं ब्रह्मणस्तदा ॥ यमस्तूर्णं ससास्थाय महिषञ्चातिदारुणम् । द्रविणाधिपतिर्व्यालं सुराणामधिपो द्विपम् ॥ मयूरं शतचन्द्रञ्च कूजन्तं किन्नरं यथा । गुह आस्थाय वरदो युगोपमरथं पितुः ॥ नदीश्वरश्च भगवान् शूलमादाय दीप्तिमत् । पृष्ठतश्चापि पार्श्वाभ्यां लोकस्य क्षयकृद्यथा ॥ प्रमथाश्चाग्निवर्णाभाः साग्निज्वाला इवाचलाः । अनुजग्मू रथं शार्व्वं नक्रा इव महार्णवम् ॥ भृगुर्भरद्बाज-वसिष्ठ-गौतमाः क्रतुः पुलस्त्यः पुलहस्तपोधनाः । मरीचिरत्रिर्भगवानथाङ्गिराः पराशरागस्त्यमुखा महर्षयः ॥ हरमजितमजं प्रतुष्टुवु- र्वचनविषैर्विचित्रभूषणैः । रथस्त्रिपुरे सकाञ्चनाचलो व्रजति सपक्ष इवाद्रिरम्बरे ॥ करिगिरिरविमेघसन्निभाः सजलपयोदनिनादनादिनः । प्रमथगणाः परिवार्य्य देवगुप्तं रथमभितः प्रययुः स्वदर्पयुक्ताः ॥ मकर-तिमि-तिमिङ्गिलावृतः प्रलय इवातिसमुद्धतोऽर्णवः । व्रजति रथवरोऽति भास्वरो ह्यशनिनिपातपयोदनिस्वनः ॥” * ॥
)
अथ ज्योतिर्व्विदाभरणे रथकर्म्माह । “लोलमैत्रलघुजिष्णुकभेषु स्यन्दनाखिलविधानमथाहुः । सेनसद्युषुवशाम्बुतपस्थैः साधुराशिवति साधुभिरङ्गे ॥” अथ रथचक्रमाह । “उष्णवृष्णिकरकीर्णपुरर्क्षा- द्देयमृक्षवलयं वलयस्य । सव्यभागनिचितभ्रममग्रा- दाविमध्यमनसो नवभागम् ॥ अग्रभे भवति संकलिरन्तः- कूवरोडुनि जयोऽथ रथाङ्गे । सन्धिभेऽर्थहृतिरन्तरसन्धौ भीतिरिष्टमनसो ननु गर्भे ॥” अथ मुहूर्त्तगणपतौ रथकृत्यम् । “पुष्ये पुनर्व्वसुज्येष्ठानुराधा रेवती द्वयोः । श्रवणादित्रिभे हस्तत्रितये रोहिणीमृगे । सार्के सौम्यदिने सौम्यविलग्ने रथकर्म्म सत् ॥” अथ ज्योतिःसागरे रथचक्रम् । “रथाकारं लिखेच्चक्रं भानुभादौ विलोकयेत् । रथाग्र त्रीणि रक्षाणि सृष्टिमार्गे प्रदापयेत् ॥ शृङ्गे मृत्युर्ज्जयं चक्रे सन्धिदण्डे महद्भयम् । रथाग्रे च महोत्पातं मध्ये चैव सुखप्रदम् ॥” इत्यार्य्येषु ज्योतिर्व्विद्वल्लभरामेण कृताः शुभा दिशः ॥ * ॥
अस्यार्थः । अथानन्तरं धीराः स्यन्दनानां रथानां अखिलं सम्पूर्णं विधानं कार्य्यमाहुः कथयन्ति । केषु लोलसंज्ञानि स्वाति पुनर्व्वसुः श्रवणा धनिष्ठा शतभिषा एतानि । मैत्रसंज्ञानि मृगशिरा रेवती चित्रा अनुराधा एतानि । लघुसंज्ञानि हस्ता अश्विनी पुष्या अभिजित् एतानि । जिष्णुरिन्द्रस्तद्भं ज्येष्ठा को ब्रह्मा तद्भं रोहिणी एतेषु नक्षत्रेषु । पुनः केषु सेनसद्द्युषु इनः सूर्य्यः तेन सह वर्त्तमानेषु । सतां शुभग्रहाणां द्युषु वारेषु । पुनः कस्मिन् साधुराशिवति शुभग्रहराशियुक्ते अङ्गे लग्ने सति । पुनः कैः वशा स्त्री सप्तमं स्थानं अम्बु चतुर्थं तपः नवमं एतद्भवनस्थैः साधुभिः शुभग्रहैरिति । अथ रथचक्रे नक्षत्रस्थापनम् । उष्णेति । उष्णवृष्णिः सूर्य्यस्तस्य करैः किरणैः कीर्णं व्याप्तं पुरं कक्षामण्डलीयस्वभागप्रदेशं यस्य तच्च तदृक्षञ्चेति तस्मात् अर्थात् सूर्य्या क्रान्तनक्षत्रात् अनसः शकटस्य वलयश्चक्रं तस्याग्रात् अग्रभागमारभ्य आविमध्यं मध्य- भागपर्य्यन्तं सुधिया ऋक्षवलयं भचक्रं देयं न्यासीकर्त्तव्यं किम्भूतं ऋक्षवलयं नवभागं नवभिर्भागैः स्थितमिति यावत् । पुनः किंभूतं सव्यभागनिचितभ्रमं वामभागेन व्याप्तभ्रमण- मिति । अथास्य फलम् । अनसः शकटस्य अग्रभे अग्रगतवर्त्तमाने चन्द्रनक्षत्रे सङ्कलिः युद्धं भवति । कूवरोडुनि युगन्धरगते वर्त्त- माननक्षत्रे अन्तो मृतिः मरणं भवति ॥ रथाङ्गे चक्रयुग्मे जयो भवति । सन्धिभे सन्धि- गतनक्षत्रे अर्थहृतिः द्रव्यहरणं भवति । अन्तरसन्धौ मध्यसन्धानगतनक्षत्रे भीति- भयो भवति । गर्भे मध्यभागगतनक्षत्रे इष्टं शुभं भवति । ननु निश्चितमिति । अन्यत् सुगमम् ॥



Correction: