शब्दकल्पद्रुमः
रथकः || पुं, (रथ इव प्रतिकृतिः । कन् ।)
मन्दिरा- वयवविशेषः । यथा, —
“अष्टकांशेन गर्भस्य रथकानान्तु निर्गमः । परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत् ॥ तत्तृतीयेन वा कुर्य्यात् रथकानान्तु निर्गमम् । रामत्रयं स्थापनीयं रथकत्रितये सदा ॥” इति श्रीहरिभक्तिविलासे २० विलासः ॥