वाचस्पत्यम्
रथ्य || पुंस्त्री० रथं वहति यत् । १ रथवाहके घोटके अमरः स्त्रियां ङीष् । रथस्येद यत् । २ रथसम्बन्धिनि चक्रादौ त्रि० हेमच० । द्राह्यायणः “यद्रथ्यं स्याद्वायोरिति चर्मण्यं प्रतिगृह्णीयात्” “रथ्यं रथसम्बन्धि चर्मण्यं लोहहिरण्यादिनिर्मितम्” ताण्ड्य० ब्रा० १ । ७ । २ भा० । रथस्य तद्गमनस्य योग्या शरणिः । ३ प्रशस्तपथे अभ्यन्तरमार्गे स्त्री अमरः । रथानां समूहः यत् । ४ रथसमूहे च स्त्री अमरः १५ आवर्त्तन्यां स्त्री मेदि० । ६ मार्गमात्रे ७ चत्वरे च स्त्री हेमच० ।
शब्दकल्पद्रुमः
रथ्यः || पुं, (रथं वहतीति । रथ् + “तद्वहति- रथयुगप्रासङ्गम् ।” ४ । ४ । ७६ । इति यत् ।)
रथस्य वोढा घोटकः । इत्यमरः । २ । ८ । ४६ ॥ रथांसः । इति हेमचन्द्रः ॥ (रथस्य नेता । यथा, ऋग्वेदे । ९ । २१ । ६ । “ऋभुर्न रथ्यं नवं दधाता केतमादिशे ।” “रथ्यं रथस्य नेतारम् ।” इति तद्भाष्ये सायणः ॥ रथसम्बन्धिनि, त्रि । यथा, ऋग्वेदे । २ । ३१ । ७ । “सप्तिर्न रथ्यो अहधीतिमश्याः ।” “रथ्यो रथसम्बन्धी सप्तिर्न सर्पणशीलोऽश्व इव ।” इति तद्भाष्ये सायणः ॥ रथस्येदमिति । “रथात् यत् ।” ४ । ३ । १२१ । इति यत् ।)
क्ली चक्रम् ॥ (युगम् । इति काशिका ॥