शब्दकल्पद्रुमः
रथ्या || स्त्री (रथानां समूहः । रथ् + “खलगो- रथात् ।” ४ । २ । ५० । इति यत् ।)
रथ- समूहः । तत्पर्य्यायः । रथकड्या (ट्या)
२ रथ- व्रजः ३ । अभ्यन्तरमार्गः । नाछ इति भाषा ॥ तत्पर्य्यायः । प्रतोली २ विशिखा ३ । इत्यमरः ॥ आवर्त्तनी । इति मेदिनी ॥ (रथाय हिता । रथ् + “रथाद्यत् ।” ४ । ३ । १२१ । इति यत् । यद्वा, रथं वहतीति । “तद्बहतीति ।” ४ । ४ । ७६ । इति यत् ।)
पन्थाः । (यथा, महा- भारते । १ । १४१ । ६० । “पानागारेषु रथ्यासु सर्व्वतीर्थेषु चाप्यथ । चत्वरेषु च कूपेषु पर्व्वतेषु वनेषु च ॥”)
चत्वरम् । इति हेमचन्द्रः ॥