वाचस्पत्यम्
रदच्छद || पु० द्वि० व० । रदान् छादयति छद—णिच्—घ ह्रस्वः । ओष्ठयोः हारा० । रदनादिच्छदादयोऽप्यत्र ।
शब्दकल्पद्रुमः
रदच्छदः || पुं, (रदानां छद आच्छादकः ।) ओष्ठः । इति हेमचन्द्रः ॥