संस्कृत-शब्दकोशः

रथ्या रदच्छद

रद

वाचस्पत्यम्

रद ||‍ उत्खाते भ्वा० प० सक० सेट् । रदति अरादीत् अरदीत् रेदतुः ।


वाचस्पत्यम्

रद ||‍ पु० रदति उत्खनति रद—अच् । १ दन्ते । भावे बा० अप् । २ उत्खनने मेदि० ।


शब्दकल्पद्रुमः

रद || उत्खाते । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
रेफादिः । उत्खातमुत्- खननमिति गोविन्दभट्टः । रदति भूमिं शूकरः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

रदः || पुं, (रदतीति । रद विलेखने + पचादित्वात् अच् ।)
दन्तः । (यथा, आर्य्यासप्तशत्याम् । ४०९ । “भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणमपि श्रयसि । धिङ्मानं तव कुञ्जर जीवं न जुहोषि जठराग्नौ ॥”)
विलेखनम् । इति मेदिनी । दे, १४ ॥ पुरुष- दन्तलक्षणं यथा, —
“विवर्णैर्धनहीनाश्च दन्ताः स्निग्धा घनाः शुभाः । तीक्ष्णा दंष्ट्राः समाः श्रेष्ठा जिह्वा रक्ता समा शुभा ॥” स्त्रीदन्तलक्षणं यथा, —
“कुन्दपुष्पसमा दन्ता भाषितं कोकिलासमम् । दाक्षिण्ययुक्तमशठं हंसशब्दसुखावहम् ॥ नासा समा समपुटा स्त्रीणान्तु रुचिरा शुभा । करालविषमा दन्ताः क्लेशाय च भयाय च । चौर्य्याय कृष्टमांसाश्च दीर्घा भर्त्तुश्च मृत्यवे ॥” इति गारुडे ६६ अध्यायः ॥ * ॥
दन्तलग्नस्य शुचित्वं यथा, —
“दन्तवद्दन्तलग्नेषु जिह्वास्पर्शेऽशुचिर्भवेत् ॥” इति कौर्म्मे उपविभागे १२ अध्यायः ॥ * ॥
“दन्तलग्नमसंहाय्यं लेपं मन्येत दन्तवत् । न तत्र बहुशः कुर्य्याद्यत्नमुद्धरणे पुनः । भवेदशौचमत्यर्थं तृणवेधाद्व्रणे कृते ॥” इति प्रायश्चित्ततत्त्वधृतवचनम् ॥



Correction: