संस्कृत-शब्दकोशः

रन्ज रन्तु

रन्तिदेव

वाचस्पत्यम्

रन्तिदेव ||‍ पु० रम—संज्ञायां तिक् कर्म० । १ विष्णौ मेदि० । २ चन्द्र- वंश्ये नृपभेदे ३ कुक्कुरे च पुंस्त्री० शब्दर० स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

रन्तिदेवः || पुं, (रमते इति । रम + संज्ञायां तिक् । रन्तिश्चासौ देवश्चेति ।)
विष्णुः । चन्द्र- वंशीयनृपतिभेदः । स तु साङ्कृतिपुत्त्रः । इति मेदिनी । वे, ६२ ॥ (यथा, भागवते । ९ । २१ । २ । “गुरुश्च रन्तिदेवश्च संकृतेः पाण्डुनन्दन ! । रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥” अयं हि याज्ञिको दाताग्रगण्य इति पुराणेषु श्रूयते । एतद्यज्ञहतगोचर्म्मरसेनैव चर्म्मण्वती नदी जाता । यथा, महाभारते । ३ । २०७ । ८ — ९ । “राज्ञो महानसे पूर्ब्बं रन्तिदेवस्य वै द्बिज । द्वे सहस्रे तु वध्येते पशूनामन्वहं तदा ॥ अहन्यहनि वध्येते द्बे सहस्रे गवां तथा । समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः ॥ अतुला कीर्त्तिरभवत् नृपस्य द्विजसत्तम ! ॥” तथाच तत्रैव । १२ । २९ । १२२ — १२८ । “उपातिष्ठंश्च पशवः स्वयं तं संशितव्रतम् । ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ॥ महानदी चर्म्मराशेरुत्क्लेदात् सुश्रुवे यतः । ततश्चर्म्मण्वतीत्येवं विख्याता सा महानदी ॥ ब्राह्मणेभ्यो ददौ निष्कान् सदसि प्रतते नृपः । तुभ्यं निष्कं तुभ्यं निष्कमिति क्रोशन्ति वै द्बिजाः । सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान् संप्रपद्यते । अन्वाहार्य्योपकरणं द्रव्योपकरणञ्च यत् ॥ घटाः पात्र्यः कटाहानिस्थाल्यश्च पिठराणि च । नासीत् किञ्चिदसौवर्णं रन्तिदेवस्य धीमतः ॥ सांकृते रन्तिदेवस्य यां रात्रिमवसन् गृहे । आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ॥ तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः । सूपभूयिष्ठमश्रीध्वं नाद्यमांसं यथा पुरा ॥”)
कुक्कुरः । इति शब्दरत्नावली ॥



Correction: