संस्कृत-शब्दकोशः

रन्तु रन्धन

रन्ध

शब्दकल्पद्रुमः

रन्धं || क्ली (रन्धयति हिनस्त्यनेनेति । रध् + बाहु- लकात् रक् ।)
दूषणम् । (यथा, रघुः । १२ । ११ । “रन्ध्रान्वेषणदक्षाणां द्बिषामामिषतां ययौ ॥”)
छिद्रम् । इति मेदिनी ॥ (यथा, रघौ । १५ । ८२ । “एवसुक्ते तया साध्व्या रन्ध्रात् सद्योभवाद्भुवः । शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥” मनुष्यशरीरस्थरन्ध्राणि यथा, —
“नासानयनकर्णानां द्बे द्वे रन्ध्रे प्रकीर्त्तिते । मेहनापानवक्त्राणामेकैकं रन्ध्रमुच्यते । दशमं मस्तके प्रोक्तं रन्ध्राणीति नृणां विदुः ॥ स्त्रीणान्त्रीण्यधिकानि स्युः स्तनयोर्गर्भवर्त्मनः । सूक्ष्मच्छिद्राणि चान्यानि मतानि त्वचि जन्मि- नाम् ॥” इति शार्ङ्गधरे पूर्ब्बखण्डे पञ्चमेऽध्याये ॥ योनिः । यथा, महाभारते । १२ । २८२ । ५३ । “रन्ध्रागतमथाश्वानां शिखोद्भेदश्च वर्हिणाम् । नेत्ररोगः कोकिलस्य ज्वरः प्रोक्तो महात्मना ॥”)



Correction: