वाचस्पत्यम्
रन्धन || न० रध—पाके ल्युट् नुमागमः । “पाके मुरहर! रन्धनसमये” इत्युद्भटः । “रन्धनाय स्थाली” सि० कौ० ।
शब्दकल्पद्रुमः
रन्धनं || क्ली पाकः । रधधातोर्भावेऽनट्प्रत्ययेन निष्पन्नम् । यथा रन्धनाय स्थाली । इति संक्षिप्तसारव्याकरणम् ॥ (रध् + ल्युः । नाशके, त्रि । यथा, भागवते । ४ । ३० । २८ । “यदनुस्मर्य्यते काले स्वबुद्ध्याभद्ररन्धन ! ॥” “हे अभद्ररन्धन ! अमङ्गलनाशन ! ।” इति तट्टीकायां श्रीधरः ॥)