वाचस्पत्यम्
रभस || पु० रभ—असच् । १ वेगे २ हर्षे मेदि० ३ औत्सुक्ये ४ पौर्वापर्य्याविचारे च अमरः । अर्श आद्यच् । ५ वेगादि- युक्ते त्रि० ६ कोषकारकभेदे पु० । ७ महति त्रि० निघ० ।
शब्दकल्पद्रुमः
रभसः || पुं, (रभणमिति । रभ + “अत्यविचमि- तमिनमिरभिलभीति ।” उणा० ३ । ११७ । इति असच् ।)
वेगः । (यथा, माघे । ९ । ७२ । “रभसोत्थितामुपगतः सहसा परिरभ्यकश्चन बधूमरुधत् ॥”)
हर्षः । इति मेदिनी । से, ३१ ॥ (प्रेमोत्साहः । यथा, गीतगोविन्दे । ५ । ६ । “मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥” “रभसस्य प्रेमोत्साहस्य ।” इति तट्टीकाबाल- बोधिनी ॥)
संरम्भः । यथा, माघे । ११ । १९ । “प्रमदमदनमाद्यद्यौवनोद्दामरामा रमणरभसखेदच्छेदविच्छे दक्षः ॥” संभ्रमः । यथा, भागवते । ११ । १९ । “वज्रदंष्ट्राः श्वानः सप्तशतानि विंशतिश्च सरभसं खादन्ति ॥”)
पौर्व्वापर्य्यविचारः । इत्यरुणः । औत्सुक्यमिति कलिङ्गः । स्त्रियामा रभसा च दृश्यते । इति कृष्णः । (यथा, किरातार्ज्जुनीये । ५ । १ । “अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमालयमुच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥”)
(यथा, महाभारते । ५ । ५१ । १० । “सर्व्वेषां मम पुत्राणां स एकः क्रूरविक्रमः । बह्वाशी विप्रतीपश्च बाल्येऽपि रभसः सदा ॥” महान् । इति निघण्टुः । ३ । ३ ॥)
यदा तु रभसगुणयोगातर्श आदित्वात् अप्र- त्यये तद्वति वर्त्तते तदा वाच्यलिङ्गता स्यात् । इति लिङ्गादिसंग्रहे भरतः ॥ स्वनामख्यातः अभिधानविशेषश्च ॥