वाचस्पत्यम्
रम || क्रीडायां भ्वा० आ० अक० अनिट् । रमते विरमति उपरमति अरंस्त उपारंसीत् । क्त्वा वेट् । णिचि रमयति । ज्वला० ण रमः रामः ।
वाचस्पत्यम्
रम || पु० रम—अच् । १ कान्ते २ अशोकवृक्षे ३ कामदेवे च मेदि
शब्दकल्पद्रुमः
रम || उ ङ ज औ क्रीडे । इति कविकल्प- द्रुमः ॥ (भ्वा०-आत्म०-अक०-अनिट् । क्त्वावेट् ।)
रेफादिः । उ, रमित्वा । रन्त्वा । ङ, रमते । ज, रामः रमः । औ, रन्ता । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
रमः || पुं, (रमते इति । रम् + पचाद्यच् ।)
कान्तः । (यथा, किरातार्ज्जुनीये । ५ । २० । “निधिगुह्यकाधिपरमैः परमैः ॥”)
रक्ताशोकवृक्षः । कामदेवः । इति मेदिनी । मे, २५ ॥ रमणञ्च । रमधातोर्भावेऽल्प्रत्यय- निष्पन्नम् ॥