वाचस्पत्यम्
रमण || पु० रमयति—रम—णिच् ल्यु । १ कामदेवे २ पत्यौ । “रमण! त्वामनुयामि यद्यपि” कुमा० । ३ गर्दभे पुंस्त्री० हेमच० स्त्रियां ङीष् । ४ वृषणे शब्दच० ५ महारिष्टे (निम) राजनि० । जम्बुद्वीपान्तर्गते ६ रम्यकनाम्नि वर्षे च । रम—भावे ल्युट् । ७ सुरते न० । करणे ल्युट् । ८ प- टोलमूले न० मेदि० । ९ जघने न० हेमच० । रम्यते- ऽनया ल्युट् ङीप् । १० नार्य्याम् ११ उत्तसनार्य्याम् स्त्री मेदि० । १२ बालाख्यवृक्षे च स्त्री शब्दचन्द्रिकाकोषः ।
शब्दकल्पद्रुमः
रमणं || क्ली (रमयतीति । रम् + णिच् + ल्युः ।)
पटोलमूलम् । इति मेदिनी ॥ जघनम् । इति हेमचन्द्रः ॥ (रम् + भावे ल्युट् ।)
जम्भनम् । तत्पर्य्यायः । अब्रह्मचर्य्यकम् २ ग्राम्यधर्म्मः ३ सुरतम् ४ रतम् ५ संप्रयोगः ६ निधुवनम् ७ मैथुनम् ८ रतिः ९ उपसृष्टम् १० धर्षितम् ११ क्रीडारत्नम् १२ महासुखम् १३ त्रिभद्रम् १४ योगमिथुनम् १५ अभिमानितम् १६ । इति शब्दरत्नावली ॥ (यथा, माघे । ११ । १९ । विकच कमलगन्धैरन्धयन् भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः । प्रमदमदनमाद्याद्यौवनोद्दामरामा- रमणरभसखेदस्वेदविच्छेददक्षः ॥”)
क्रीडनम् । इति रमधात्वर्थदर्शनात् ॥ (रत्यु- त्पादनम् । यथा, भागवते । १० । २ । १३ । “रामेति लोकरमणाद्बलं बलवदुच्छ्रयात् ॥” “लोकस्य रमणात् रत्यत्पादनात् ।” इति तत्र स्वामी ॥ वनविशेषः । यथा, हरिवंशे । १५५ । २१ । “भाति चैत्रवनञ्चैव नन्दनञ्च वनं महत् । रमणं भावनं चैव वेणुमद्वै समन्ततः ॥”)
शब्दकल्पद्रुमः
रमणः || पुं, (रमते रमयतीति वा । रम् + णिच् वा + ल्युः ।)
पतिः । (यथा, कुमारे । ४ । २१ । “वचनीयमिदं व्यवस्थितं रमण ! त्वामनुयामि यद्यपि ॥” रमयति स्त्रीपुरुषाणां अन्तःकरणमिति । रम् + णिच् + ल्युः ।)
कामदेवः । इति मेदिनी । णे, ७२ ॥ गर्द्दभः । इति हेमचन्द्रः । ३ । १८१ ॥ वृषणः । इति शब्दचन्द्रिका ॥ महारिष्टः । इति राजनिर्घण्टः ॥ (धरवसुपुत्त्राणामन्य- तमः । यथा, मात्स्ये । ५ । २४ । “कल्याणिन्यां ततः प्राणो रमणः शिशिरोऽपि च मनोहरा धरात् पुत्त्रानवापाथ हरेः सुता ॥” रमणीये, त्रि । यथा, भागवते । ४ । ६ । १० । “रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥”)