शब्दकल्पद्रुमः
रमणकं || क्ली (रमन्ते लोका अत्र । रम् + ल्युट् । संज्ञायां कन् ।)
जम्बुद्बीपान्तर्गतवर्षविशेषः । स तु रम्यकवर्षः । यथा, —
“एवमेवोत्तरे त्रीणि वर्षाणि च तपोधन । कुरुवर्षं सिन्धुकूलात् शृङ्गवानवधिः स्मृतः ॥ हिरण्मयं ततो वर्षं श्वेतावधि निगद्यते । रम्यकञ्च ततो वर्षं नीलस्तस्यावधिः स्मृतः ॥” अपि च । शेष उवाच । “दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु । वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥ शुक्लाभिजनसम्पन्नाः सर्व्वे सुप्रियदर्शनाः । दशवर्षसहस्राणि शतानि दश पञ्च च । जीवन्ति ते महाभाग नित्यं मुदितमानसाः ॥” इति पाद्मे भूखण्डे १२८ । २२९ अध्यायौ ॥ (अन्यत् रम्यकशब्दे द्रष्टव्यम् ॥ वीतिहोत्रस्य पुत्त्रभेदः । यथा, भागवते । ५ । २० । ३१ । “तद्द्वीपस्याधिपतिः प्रैयवतो वीतिहोत्रो नाम तस्यात्मजौ रमणकधातकनामानौ वर्षपती नियुज्य स्वयं पूर्व्वजवद्भगवत्कर्म्मशील एवास्ते ॥”)