शब्दकल्पद्रुमः
रमणी || स्त्री (रमतेऽस्यामिति । रम + ल्युट् । ङीष् ।)
नारी । इति मेदिनी । णे, ७२ ॥ उत्कृष्टस्त्रीविशेषः । या वपुर्गुणोपचारेण सौभाग्येन कान्तं रमयति सा । इत्यमरभरतौ ॥ (यथा, कथासरित्सागरे । ५२ । २१४ ॥ “रथेन रमणीयुक्तः प्रजानां दत्तकौतुकः ॥”)
बालाख्यवृक्षः । यथा, —
“बाला च रमणी रामा बन्ध्या कामकलापि च ॥” इति शब्दचन्द्रिका ॥